________________
द्वादशानुप्रेक्षाधिकारः ।
३१
rrrrrrrrrrrrromanimronew
टीका-सेयं बोधिर्भवभयमथनी संसारभीतिविनाशिनी गुणविस्तरा गुणैविस्तीर्णा सर्वगुणाधारा मया लब्धा प्राप्ता, यदि कदाचित्संसारसमुद्रे पतिता प्रभ्रष्टा न खलु नैव स्फुटं पुनः सुलभाऽर्द्धपुद्गलपरावर्त्तनमन्तरेण तस्मान्नैव क्षमो नैव योग्यः प्रमादो मम-बोधिविषये प्रमादकरणं मम नैव युक्तमिति ॥ ६८॥
बोधिविषये यः प्रभादं करोति तं कुत्सयन्नाह;दुल्लहलाहं लक्ष्ण बोधि जो णरो पमादेजो। सो पुरिसो कापुरिसो सोयदि कुगदिं गदो संतो॥६९॥ दुर्लभलाभां लब्ध्वा बोधिं यो नरः प्रमादयेत् । स पुरुषः कापुरुषः शोचति कुगतिं गतः सन् ॥ ६९॥ टीका-दुर्लभलाभां बोधि संसारक्षयकरणसमर्थी यो लब्ध्वा प्राप्य प्रमादयेत् प्रमादं कुर्यात्सः पुरुषः कापुरुषः कुत्सितः पुरुषः शोचति दुःखी भवति कुगति नरकादिगतिं गतः सन्निति ॥ ६९॥ .
बोधिविकल्पं तत्फलं च प्रतिपादयन्नाह;उवसमखयमिस्सं वा बोधि लघृण भवियपुंडरिओ । तवसंजमसंजुत्तो अक्खयसोक्खं तदा लहदि ॥ ७० ॥ उपशमक्षयमिश्रां वा बोधि लब्ध्वा भव्यपुंडरीकः । तपःसंयमसंयुक्तः अक्षयसौख्यं तदा लभते ॥ ७० ॥
टीका-क्षयोपशमविशुद्धिदेशनाप्रायोग्यलब्धीलब्ध्वा पश्चादधःप्रवृत्यपूर्वानिवृत्तिकरणान् कृत्वोपशमक्षयोपशमक्षयरूपां बोधिं लभते जीवः । पूर्वसचितकर्मणोऽनुभागस्पर्द्धकानि यदा विशुझ्या प्रतिसमयमनंतगुणहीनानि भूत्वोदीयन्ते तदा क्षयोपशमलब्धिर्भवति । प्रतिसमयमनंतगुणहीनक्रमणोदीरि