SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३२ मूलाचारे तानुभागस्पर्द्धकजानितजीवपारणामः सातादिसुखकर्मबंधनिमित्तोऽसाताद्यसुखकर्मबंधविरुद्धो विशुद्धिलब्धिर्नाम । षड्व्व्यनवपदार्थोपदेशकाचार्याापलब्धिर्वोपदिष्टार्थग्रहणधारणविचारणशक्तिर्वा देशनालब्धिर्नाम । सर्वकर्मणामुत्कृटस्थितिमुत्कृष्टानुभागं च हत्वाऽन्तःकोट्यकोटीस्थितौ द्विस्थानानुभागस्थानं प्रायोग्यलब्धिर्नाम । तथोपरिस्थितपरिणामैरधःस्थितपरिणामाः समाना अधःस्थितपरिणामैरुपरिस्थितपरिणामाः समाना भवन्ति यस्मिन्नवस्थाविशेषकालेऽधःप्रवर्तनादधः प्रवृत्तिकरणः । अपूर्वापूर्वशुद्धतराः करणाः परिणामा यस्मिन् कालविशेष स्युरसावपूर्वकरणः परिणामः । एकसमयप्रवर्त्तमानानां जीवानां परिणामैर्न विद्यते निवृत्तिभेदो यत्र सोऽनिवृत्तिकरण इति । एवं क्रियां कृत्वाऽनंतानुबंधिक्रोधमानमायालोभप्रकृतीनां सम्यक्त्वसम्यङ्गिथ्यात्त्वमिथ्यावप्रकृतीमां चोपशमादुपशमसम्यक्त्वबोधिर्भवति । तथा तासामेव सप्तप्रकृतीनां क्षयोपशमात् क्षायोपशमिकसम्यक्त्वबोधिर्भवति । तथा तासामेव सप्तानां प्रकृतीनां क्षयात् क्षायिकसम्यक्त्वं भवति । एवमतिदुर्लभतरां त्रिप्रकारां बोधिं लब्ध्वा भव्यपुण्डरीको भव्योत्तमस्तपसा संयमेन च युक्तोऽक्षयसौख्यं ततो लभते सर्वद्वन्दविनिर्मुक्तः सिद्धिमधितिष्ठतीति यतो बोध्यां सर्वोऽपि जीव: सिद्धिं लभते॥७॥ तम्हा अहमवि णिचं सद्धासंवेगविरियविणएहिं । अत्ताणं तह भावे जह सा बोही हवे सुइरं ।। ७१ ॥ तस्मात् अहमपि नित्यं श्रद्धासंवेगवीर्यविनयैः । आत्मानं तथा भावयामि यथा सा बोधिः भवेत् सुचिरं ॥७१॥ टीका-यस्मादेवं विशिष्टा बोधिस्तस्मादहमपि नित्यं सर्वकालं श्रद्धा मानसिकः शासनानुरागः, संवेगो धर्मधर्मफलविषयादनुरागः वीर्य वीर्यान्तरायक्षयोपशमजनितशक्तिः, विनयो मनोवाक्कायानामनुद्धतिर्नम्रता तैरात्मानं तथा भावयामि यथाऽसौ बोधिर्भवेत्सुचिरं सर्वकालमिति ॥ ७१ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy