________________
. द्वादशानुप्रेक्षाधिकारः। किमर्थ बोधि व्यंत इत्याशंकायामाह;बोधीय जीवदव्वादियाई बुज्झइ हु णव वि तचाई। गुणसयसहस्सकलियं एवं बोहिं सया झाहि ॥ ७२॥ बोध्या जीवद्रव्यादीनि बुध्यते हि नवापि तत्त्वानि । गुणशतसहस्रकलितां एवं बोधि सदा ध्याय ॥७२॥ टीका-यतो बोधिमवाप्य जीवाजीवास्रवपुण्यपापबंधसंवरनिर्जरामोक्षाः पदार्था द्रव्याणि अस्तिकायाश्च तत्वानि च बुध्यते बोध्या वा बुध्यते ततो गुणशतसहस्रकलितामेवंभूतां बोधिं सदा सर्वकालं ध्याय भावयेति ॥ ७२ ॥
द्वादशानुप्रेक्षामुपसंहर्तुकामः प्राह;दस दो य भावणाओ एवं संखेवदो समुद्दिट्ठा। जिणवयणे दिट्ठाओ बुहजणवेरग्गजणणीओ ॥ ७३ ॥
दश द्वे च भावना एवं संक्षेपतः समुद्दिष्टाः।। जिनवचने दृष्टा बुधजनवैराग्यजनन्यः ॥७३॥
टीका-एवं दश द्वे चानुप्रेक्षा भावनाः संक्षेपतः समुपदिष्टाः प्रतिपादिता जिनवचने यतो दृष्टा नान्यत्रानेन प्रामाण्यं ख्यापितं तासां स्यात्, बुधजनानां वैराग्यस्य जनन्यो वैराग्यकारिण्योऽनेन रागाभावश्च ख्यापितः श्रुतस्य भवतीति ॥ ७३॥
अनुप्रेक्षाभावने कारणमाह;अणुवेक्खाहिं एवं जो अत्ताणं सदा विभावदि।। सो विगदसवकम्मो विमलो विमलालयं लहदि॥७४॥