SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः। २७ vvvvvvvvvvv vvvvvvvvvvvvvvvvvvvvvvvvvvvvv पुनरपि;चिरकालमज्जिदंपिय विहुणदितवसा रयत्ति णाऊण । दुविहे तवम्मि णिचं भावेदव्वो हवदि अप्पा ॥ ५८ ॥ चिरकालमर्जितमपि च विधूयते तपसा रज इति ज्ञात्वा । द्विविधे तपसि नित्यं भावयितव्यो भवति आत्मा ॥५८॥ टीका-चिरकालं संख्या(म)तीतसमयं कर्मार्जितमपि तपसा विधूयत इति ज्ञात्वा तपसि नित्यं निरन्तरमात्मा भावयितव्यो भवतीति ॥ ५८ ॥ भावितात्मा स नु किं स्यादित्याह;णिज्जरियसव्वकम्मो जादिजरामरणबंधणविमुक्को। पावदि सुक्खमणंतं णिज्जरणं तं मणसि कुज्जा ।। ५९ ॥ निर्जीर्णसर्वकर्मा जातिजरामरणबंधनविमुक्तः । प्राप्नोति सुखमनतं निर्जरणं तन्मनसि कृत्वा ॥ ५९ ॥ टीका-ततो निर्जीर्णः सर्वकर्मनिर्मुक्तो जातिजरामरणबन्धनविमुक्तः प्राप्नोति सौख्यमतुलमनंतं, तन्निर्जरणं मनसि कृत्वा विधायेति ॥ ५९ ॥ निर्जरानुप्रेक्षां व्याख्याय धर्मानुप्रेक्षास्वरूपं विवेचयन्नाह;सव्वजगस्स हिदकरो धम्मो तित्थंकरहिं अक्खादो। धण्णां तं पडिवण्णा विसुद्धमणसा जगे मणुया ॥६०॥ सर्वजगतो हितकरो धर्मः तीर्थकरैः आख्यातः। धन्यास्तं प्रतिपन्ना विशुद्धमनसा जगति मनुजाः ॥६०॥ टीका-सर्वस्य जगतो भव्यलोकस्य हितकरो धर्म उत्तमक्षमादिलक्षणस्तीर्थकरैराख्यातः प्रतिपादितस्तं धर्म ये प्रतिपन्नास्तं धर्ममधिष्ठिता ये पुरुषा विशुद्धमनसा शुद्धभावेन ते धन्याः पुण्यवंतः कृतार्था जगतीति ॥ ६० ॥ १ 'धण्णा तं तु पवण्णा' प्रेस-पुस्तके पाठान्तरं ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy