________________
मूलाचारे
टीका-संसारे चतुर्गतिसंसरणे, संसरतः पर्यटतः, क्षयोपशमगतकर्मणः किंचित् क्षयमुपगतं किंचिदुपशान्तं किंचित्तत्स्वरूपेण स्थितं कर्म तस्य कर्मणो या निर्जरा सा सर्वस्यैव जीवस्य भवति जगति सा च देशनिर्जरा तपसा पुननिर्जरा विपुला-तपोग्निना भस्मीकृतस्य सर्वस्य कर्मणो निर्जरा सकलेति ॥५५॥
सकलनिर्जरायाः फलं स्वरूपं चाह;जह धादू धम्मतो सुज्झदि सो अग्गिणा दु संतत्तो। तवसा तहा विसुज्झदि जीवो कम्मेंहि कणयं व ॥५६॥
यथा धातुः धम्यमानः शुध्यति सोऽग्निना तु संतप्तः। तपसा तथा विशुध्यति जीवः कर्मभ्यः कनक इव ॥ ५६ ॥ टीका-यथा धातुर्धम्यमानः शुध्यति किट्टकालिमादिरहितो भवति अग्निना तु सन्तप्तः सन्, तथा तपसा विशुध्यति कर्मभ्यो जीवः सर्वकर्मविमुक्तः स्यात्कनक इव । यथा धातुर्धम्यमानोऽग्निना सन्तप्तः कनकः स्यात्तथा जीवस्तपसा संतप्तः सिद्धः संपद्यत इति ॥ ५६ ॥
तपसो माहात्म्यमाह;- - - णाणवरमारुदजुदो सीलवरसमाधिसंजमुज्जलिदो। दहइ तवो भवबीयं तणकट्ठादी जहा अग्गी ॥ ५७ ॥
ज्ञानवरमारुतयुतं शीलवरसमाधिसंयमोज्ज्वलितं। दहति तपो भवबीजं तृणकाष्ठादिकं यथा अग्निः ॥ ५७ ॥ टीका-ज्ञानवरमारुतयुतं मत्यादिज्ञानबृहद्वातसहितं, शीलं व्रतपरिरक्षण, वरसमाधिरेकाग्रचिन्तानिरोधः, पंचनमस्कृतिसहितः संयमः प्राणिदया इन्द्रियनिग्रहश्चैतैरुज्ज्वलितं प्रज्वलितं दीप्तं तपो दहति भवबीजं संसारकारणं । तृणकाष्ठादिकं यथाऽग्निर्दहति तथेति ॥ ५७ ॥