SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः । संवरानुप्रेक्षां संक्षेपयन् तस्याश्च फलं प्रतिपादयन्नाह; - संवरफलं तु णिव्वाणमेत्ति संवरसमाधिसंजुत्तो । णिच्चुज्जुत्तो भावय संवर इणमो विसुद्धप्पा ॥ ५३ ॥ संवरफलं तु निर्वाणमिति संवरसमाधिसंयुक्तः । नित्योद्युक्तो भावय संवरमिमं विशुद्धात्मा ॥ ५३ ॥ २५ टीका - संवरफलं निर्वाणमिति कृत्वा संवरेण समाधिना चाथवा संवरध्यान संयुक्तः सन् नित्योयुक्तश्च सर्वकालं यत्नपरं भावयेमं संवरं विशुद्धात्मा सर्वद्वन्द्वपरिहीणः – संवरं प्रयत्नेन चिन्तयेति ॥ ५३ ॥ निर्जरास्वरूपं विवृण्वन्नाह; — रुद्रासवस्स एवं तवसा जुत्तस्स णिज्जरा होदि । दुविहाय सा विभणिया देसादो सव्वदो चेय ॥ ५४ ॥ रुद्वास्रवस्य एवं तपसा युक्तस्य निर्जरा भवति । द्विविधा च सापि भणिता देशतः सर्वतश्चैव ॥ ५४ ॥ टीका —रुद्वास्रवस्य पिहितकर्मागमद्वारस्यैवं तपसा युक्तस्य निर्जरा भवति — कर्मशातनं भवति । साऽपि च निर्जरा द्विविधा भणिता, देशतः सर्वतश्च कर्मैकदेशनिर्जरा सर्वकर्मनिर्जरा चेति ॥ ५४ ॥ देशनिर्जरास्वरूपमाह; — संसारे संसरंतस्स खओवसमगदस्स कम्मस्स । सव्वस्स वि होदि जगे तवसा पुण णिज्जरा विउला ॥५५॥ संसारे संसरतः क्षयोपशमगतस्य कर्मणः । सर्वस्यापि भवति जगति तपसा पुनः निर्जरा विपुला ॥ ५५ ॥ १' एककमैक' इति प्रेस - पुस्तके पाठः ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy