SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ मूलाचारेmmmmmmmmmmmmmmmmmm टीका-इन्द्रियाणि कषाया द्वेषाश्चैते निगृह्यन्ते निरुध्यन्ते यथासंख्य तपसा ज्ञानेन विनयेन । इन्द्रियाणि तपसा निगृह्यन्ते, कषाया ज्ञानभावनया वशीक्रियते, द्वेषो विनयक्रियया प्रलयमुपनीयते । यथोत्पथगामिन उन्मार्गयायिनस्तुरगा अश्वा निगृह्यन्ते वशतामुपनीयन्ते रज्जुभिर्वरत्राभिः खल्विति॥५०॥ चारित्रसंवरस्य स्वरूपमाह;मणवयणकायगुत्तिंदियस्स समिदीसु अप्पमत्तस्स । आसवदारणिरोहे णवकम्मरयासवो ण हवे ॥ ५१ ॥ मनोवचनकायगुप्तेंद्रियस्य समितिषु अप्रमत्तस्य । आस्रवद्वारनिरोधे नवकर्मरजआस्रवो न भवेत् ॥ ५१ ॥ 'टीका-मनोवचनकायैर्गुप्तोन्द्रयस्य समितिषु चे भाषैषणाऽऽदाननिनिक्षेपोच्चारप्रस्रवणसंज्ञिकास्वप्रमत्तस्य सुष्टु प्रमादरहितस्य चारित्रवत आस्रवद्वारनिरोधे यैारैः कागच्छति तेषां निरोधे सति नवकर्मरजस आस्रवो न भवेत्-अभिनवकर्मागमो न भवेदिति ॥ ५१ ॥ पुनरपि संक्षेपत आस्रवं संवरं चाह;मिच्छत्ताविरदीहिं य कसायजोगेहिं जं च आसवदि । दसणविरमणणिग्गहणिरोधणेहिं तु णासवदि ॥५२ ॥ मिथ्यात्वाविरतिभिः च कषाययोगैः यच्च आस्रवति । दर्शनविरमणनिग्रहनिरोधनैस्तु न आस्रवति ॥ ५२॥ टीका-मिथ्यात्वाविरतिकषाययोगैर्यत्कर्मास्रवति तत्कर्म सम्यग्दर्शनविरतिनिग्रहनिरोधनस्तु यथासंख्यं नास्रवति नागच्छतीति ॥ ५२ ॥ १ मिथ्यात्वाविरतिप्रमादकषाययोगैरिति प्रेस-पुस्तके पाठः । मूलपाठोऽपि 'मिच्छत्ताविरदिपमदकसायजोगेहि ' इत्येवं रूपः किन्तु मिथ्यात्वादीनां पंचानां चतुर्भिः सम्यग्दर्शनादिभिः सह याथासंख्यं न संगच्छतेऽतो. निष्कासितः।-संशोधकः।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy