________________
द्वादशानुप्रेक्षाधिकारः ।
२३
रयेत् । कानि तानि ? इन्द्रियकषायसंज्ञागौरवरागादिकानि । यस्मादेतैः कर्मागच्छति तस्मादेतानि सर्वाणि निरोधयेदिति ॥ ४८॥
रुद्धेषु येषु यद्भवति तदाह;रुद्धसु कसायेसु अ मूलादो होति आसवा रुद्धा । दुब्भत्तम्हि णिरुद्धे वणम्मि णावा जह ण एदि ॥४९॥ रुद्धेषु कषायेषु च मूलात् भवंति आस्रवा रुद्धाः। दुर्वहति निरुद्ध वने नौः यथा न एति ॥ ४९ ॥ टीका--रुद्धेषु च कषायेषु च मूलादारभ्य मूलत आस्रवाः सर्वेऽपि रुद्धाः सम्यक् पिहिता भवंति यथा दुर्वहति वने पानीये-दुष्टे वहति स्रोतसि ज़ले, अथ व्रणे--विवरे, दुष्टे वहति, निरुद्धे विधृते, नावं नैति जलं यथा । अथवा नालिकेरादित्वाग्भिर्बद्धा नौः सास्रवा सत्यपि नयति प्राप्नोति परतीरं, अथवा नैति विनाशं । कषायेषु निरुद्वेषु आस्रवा रुद्धा यथा नावं नैति जलं रुद्धेषु, यथा च सासवा नौवहति पानीय निरुद्ध मूलतस्तस्या नावः सर्वेऽपि आस्रवा निरुद्धा भवंति ततः सा नौनयति प्रापयतीष्टस्थानमानयति वा स्वष्टं वस्तु विनाशं च न गच्छति, एवं कषायेषु रुद्धेषु मूलतः सर्वेऽप्यास्रवा निरुद्धा भवति ततो यद्यपि योगादिद्वारैः सास्रवो जंतुस्तथाऽपि रत्नत्रयं मोक्षपत्तनं नयतीति ॥ ४९॥
इन्द्रियसंवरस्वरूमाह;इंदियकसायदोसा णिग्धिप्पंति तवणाणविणएहिं । रज्जूहि णिधिप्पति हु उप्पहगामी जहा तुरया ॥५०॥
इन्द्रियकषायदोषा निगृह्यते तपोज्ञानविनयैः । रज्जुभिः निगृह्यते खलु उत्पथगामिनो यथा तुरगाः ॥ ५० ॥