________________
२२
मूलाचारे• mmmmmmmmmmmmmmmmmm
पुनरप्यास्रवानाह;हिंसादिएहिं पंचहिं आसवदारेहिं आसवदि पावं । तेहितो धुव विणासो सासवणावा जह समुद्दे ॥४६ ॥ हिंसादिभिः पंचभिः आस्रवद्वारैः आस्रवति पापं । तेभ्यो ध्रुवं विनाशः सास्रवनौः यथा समुद्रे ॥ ४६ ॥ टीका-हिंसानृतस्तेयाब्रह्मपरिग्रहैः पंचभिरास्रवद्वारैरास्रवति कर्मोपढौकते पापं । तेभ्यश्चाश्रितेभ्यो ध्रुवो निश्चयरूपो विनाशो जीवस्य भवति । यथा सास्रवा नौः पोतः समुद्रे निमज्जति, एवं कर्मास्रवैर्जीवः संसारसागरे निमज्जतीति ॥४६॥ ___ आस्रवानुप्रेक्षामुपसंहरन्नाह;एवं बहुप्पयारं कम्मं आसवदि दुट्ठमढविहं । णाणावरणादीयं दुक्खविवागं ति चिंतेज्जो ॥ ४७ ॥
एवं बहुप्रकारं कर्म आस्रवति दुष्टमष्टविधं । ज्ञानावरणादिकं दुःखविपाकमिति चिंतयेत् ॥ ४७॥ टीका-एवं ज्ञानावरणादिकं कर्माष्टविधं भेदेन बहुप्रकारं दुष्टं वाऽऽस्रवति यस्मात्तस्मात्तमाञवं दुःखविपाकमिति कृत्वा चिन्तयेत् भावयेदिति॥४७॥
यस्मादेवमास्रवैः कर्मास्रवति तस्मात्संवरमाह;तम्हा कम्मासवकारणाणि सव्वाणि ताणि रुंधेज्जो ॥ इंदियकसायसण्णागारवरागादिआदीणि ॥४८॥
तस्मात् कर्मास्रवकारणानि सर्वाणि तानि रोधयेत् । इन्द्रियकषायसंज्ञागौरवरागादिकादीनि ॥ ४८ ॥ टीका-तस्मात्कर्मास्रवकारणानि सर्वाणि यानि तानि निरोधयेत् निवा