SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षाधिकारः। २१ धिक तानि इन्द्रियाणि येषां वशतस्तु पापमर्जयित्वा । प्राप्नोति पापविपाकं दुःखमनतं भवगतिषु ॥ ४३॥ . टीका-धिग्भवतु तानीन्द्रियाणि, येषामिन्द्रियाणां वशतो वशं गतः पापमर्जयित्वा च पापं संगृह्य प्राप्नोति, तस्य पापस्य विपाकं फलं भवगतिषु च दुःखमनंतं प्राप्नोतीति ॥ ४३ ॥ संज्ञागौरवाणां स्वरूपमाह;सण्णाहिं गारवेहिं अ गुरुओ गुरुगं तु पावमज्जणिय । तो कम्मभारगुरुओ गुरुगं दुक्खं समणुभवइ ।। ४४ ॥ संज्ञाभिः गौरवैश्च गुरुर्गुरुकं तु पापमर्जयित्वा । ततः कर्मभारगुरुः गुरुकं दुःखं समनुभवति ॥४४॥ टीका-आहारादिसंज्ञाभिर्गौरवैश्च गुरुः सन् गुरुकं तु पापमर्जयित्वा • पापभार स्वीकृत्य ततः पापभारेण गुरुर्भूत्वा ततो गुरुकं दुःखं समनुभवतीति॥४४॥ कषायास्रवस्वरूपमाह;कोधो माणो माया लोभो य दुरासया कसायरिऊ। दोससहस्सावासा दुक्खसहस्साणि पावंति ॥ ४५ ॥ क्रोधः मानः माया लोभश्च दुराश्रयाः कषायरिपवः । दोषसहस्रावासाः दुःखसहस्राणि प्रापयति ॥ ४५ ॥ टीका-क्रोधमानमायालोभा दुराश्रया दुष्टाश्रयाः कषायरिपवः दोषसहस्राणामावासाः दुःखसहस्राणि जीवान् प्रापयंति-दुःखसहस्रैः कषाया जीवान् संबंधयन्तीत्यर्थः ॥ ४५॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy