SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मूलाचारे किंविशिष्टं ? हितशिवसुखकारणं मार्ग — एकांतवादिपरिकल्पितसुखनिमित्तमा र्गविपरीतं येन मोहेन न विबुध्यते तं मोहं धिग्भवन्त्विति ॥ ४० ॥ २० रागद्वेषौ कुत्सयन्नाह - जिणवयण सहाणो वि तिव्वमसुहगदिपावयं कुणइ । अभिभूदो जेहिं सदा धित्तेसिं रागदोसाणं ॥ ४१ ॥ जिनवचनं श्रद्दधानोपि तीव्रमशुभगतिपापं करोति । अभिभूतो याभ्यां सदा धिक् तौ रागद्वेषौ ॥ ४१ ॥ टीका - याभ्यां रागद्वेषाभ्यामभिभूतः कदर्थितोऽयं जीवो जिनवचनं श्रद्दधानोऽपि तत्वरुचिसहितोऽप्यशुभगतिहेतुकं तीव्रं पापं करोति श्रेणिकादिवत्, धिग्भवतस्तौ रागद्वेषौ, इति दर्शने सत्यपि रागद्वेषौ पुरुषस्य पापं जनयत इति तयोर्निराकरणे संभ्रमः कार्यइति ॥ ४१ ॥ विषयाणां दुष्टत्वमाह; अणिहुमणसा दे इंदियावसया णिगेहिदुं दुक्खं । मंतोसहिहीणेण वदुट्ठा आसीविसा सप्पा ॥ ४२ ॥ अनिभृतमनसा एतान् इंद्रियविषयान् निग्रहीतुं दुःखं । मंत्रौषधहीनेन इव दुष्टा आशीविषाः सर्पाः ॥ ४२ ॥ टीका - एकाग्रचित्तमन्तरेणैतानिन्द्रियविषयान्निग्रहीतुं दुःखमेतेषां रूपरसगंधस्पर्शशब्दविषयाणामिन्द्रियाणां निग्रहं कर्त्तुं न शक्यते चलचित्तेन । यथा मंत्रौषधिहीनेन दुष्टा आशीविषाः सर्पा वशीकर्तुं न शक्यन्त इति ॥ ४२ ॥ तानि कुत्सयन्नाह ; धित्तोसमंदियाणं जेसिं वसदो दु पावमज्जणिय | पावदि पावविवागं दुक्खमणंतं भर्वगदिसु ॥ ४३ ॥ १' चउग्गदिसु' पाठान्तरम् ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy