________________
द्वादशानुप्रेक्षाधिकारः ।
रागः द्वेषः मोहः इन्द्रियसंज्ञाश्च गौरवकषायाः । मनोवचनकायसहितास्तु आस्रवा भवंति कर्मणः
१९
३८ ॥
टीका- रागद्वेषमोहपंचेन्द्रियाहारभयमैथुनपरिग्रहसंज्ञाः ऋद्विगौरवरसगौरवसातगौरवकषायाश्च मनोवचनकायसहिता एवं सर्व एते कर्मण आस्रवा भवन्ति — कर्माण्येतैरागच्छन्तीति ॥ ३८ ॥
रागादीन् विवेचयन्नाह; -
रंजेदि असुहकुणपे रागो दोसो वि दूसदी णिचं | मोहो वि महारिवु जं णिय मोहेदि सम्भावं ॥ ३९ ॥
रंजयति अशुभकुणपे रागो द्वेषोपि द्वेष्टि नित्यं । मोहोपि महारिपुः यन्नियतं मोहयति सद्भावं ॥ ३९ ॥
टीका - रागो जीवं कुणपे वस्तुनि रंजयति — कुत्सिते द्रव्येऽनुरागं कारयति रागः । द्वेषोऽपि शोभनमपि द्वेष्टि - सम्यग्दर्शनादिषु द्वेषं कारयति । नित्यं सर्वकालं, । मोहोऽपि महारिपुर्महावैरी यस्मान्नियतं निश्चयेन मोहयति सद्भावं जीवस्य परमार्थरूपं तिरयतीति ॥ ३९ ॥
यत एवंभूतो मोहोऽतस्तं कुत्सयन्नाह ;
धिद्धी मोहस्स सदा जेण हिदुत्थेण मोहिदो संतो ।
ण विबुज्झदि जिणवयणं हिदसिवसुहकारणं मग्गं ॥
|
धिक् धिक् मोहं सदा येन हृदयस्थेन मोहितः सन् । न विबुध्यते जिनवचनं हितशिवसुखकारणं मार्गम् ॥ ४० ॥
टीका - धिक् धिक् भवतु मोहं-- मोहः प्रलयं गच्छतु । येन मोहेन हृदयस्थेन मोहितो मूढः सन् न विबुध्यते तन्न जानाति जिनवचनं परमागमं ।