________________
मलाचार
टीका-अर्थ स्त्रीवस्त्रादिकं, कामं मैथुनादिकं, शरीरादिकमपि सर्वमशुभमिति जगति ज्ञात्वा निर्वेदं गच्छन् ध्यायस्व चिन्तय यथा जहांसि कुत्सितकलेवरमशुचि, शरीरवैराग्यं संसारवैराग्यं च सम्यक् चिंतयेति ॥ ३५ ॥ ___ अशुभानुप्रेक्षां संक्षेपयन्नाह;मोत्तूण जिणक्खादं धम्मं सुहमिह दु णत्थि लोगम्मि । ससुरासुरेसु तिरिएसु णिरयमणुएसु चिंतेज्जो ॥ ३६ ॥ मुक्त्वा जिनख्यातं धर्म शुभमिह तु नास्ति लोके । ससुरासुरेषु तिर्यक्षु नरकमनुजेषु चिंतयेत् ॥ ३६ ॥
टीका-ससुरासुरेषु नरकतिर्यमनुष्येषु जिनख्यातं धर्म मुक्त्वा शुभमिहान्यन्नास्ति, एवं चिन्तयेत्, लोके धर्ममन्तरेणान्यच्छुभं न मवतीति जानीहि ॥ ३६॥ __आस्रवानुप्रेक्षां प्रकटयन्नाह;दुक्खभयमीणपउरे संसारमहण्णवे परमघोरे । जंतू जंतु णिमजदि कम्मासवहेदुयं सव्वं ॥ ३७॥ दुःखभयमीनप्रचुरे संसारमहार्णवे परमघोरे । जंतुः यत्तु निमज्जति कर्मास्रवहेतुकं सर्व ॥ ३७ ॥ टीका-दुःखभयान्येव मीना मत्स्यास्त एव प्रचुरा भूता यस्मिन् स दुःखभयमीनप्रचुरस्तस्मिन् संसारमहार्णवे परमघोरे सुष्टु रौद्रे जन्तु वो यस्मानिमज्जति प्रविशति तत्सर्व कर्मास्रवहेतुकं कर्मादाननिमित्तमिति ॥ ३७॥
क आस्रवा इत्याशंकायामाह;रागो दोसो मोहो इंदियसण्णा य गारवकसाया। मणवयणकायसहिदा दु आसवा होंति कम्मस्स ॥३८॥ . १'यभास्य ' प्रेस-पुस्तके पाठः।