________________
द्वादशानुप्रेक्षाधिकारः ।
आहारादपि न सुखं भवतीत्याह;असुइविलिविले गम्भे वसमाणो वस्थिपडलपच्छण्णो। मादूइसेभलालाइयं तु तिव्वासुहं पिबदि ॥ ३३ ॥
अशुच्याविले गर्भे वसन वस्तिपटलप्रच्छन्नः। मातृश्लेष्मलालायितं तु तीव्राशुभं पिबति ॥ ३३ ॥
टीका-अशुच्याविले मूत्रपुरीषश्लेष्मपित्तरुधिरादिबीभत्से, गर्भ उदराभ्यंतरे, वसन् सांतष्ठमानः, वस्तिपटलप्रच्छन्नः जरायुरावृतः, मातृश्लेष्मलालायितं जनन्या चर्वितं श्लेष्मलालासमन्वितं रसं तीव्र दुर्गन्धं पिबति यत एवंभूतो मूलाहारस्ततः कयमाहारत् सुखमित्याहारोऽप्यशुभरूप एवेति ॥ ३३॥
शरीरम यशुभमिति निरूपयन्नाह;-- मंसद्विसिंभवसरुहिरचम्मपित्तंतमुत्तकुणिपकुडिं। बहुदुक्खरोगभायण सरीरमसुभं वियाणाहि ॥ ३४ ॥
मांसास्थिश्लेष्मवसारुधिरचर्मपित्तांत्रमूत्रकुणिपकुटीं। बहुदुःखरोगभाजनं शरीरमशुभं विजानीहि ॥ ३४॥ टीका-मांसास्थिश्लेष्मवसारुधिरचर्मपित्तांत्रमूत्रकुणिपाशुचिकुटी गृहमेतेषां बहुदःखरोगभाजनं शरीरमिदशुभमशुचि विजानीहीति ॥ ३४ ॥
तस्मात्;अत्थं कामसरीरादियं पिसव्वमसुभत्ति णादण । णिीवजंतो झायसु जह जहसि कलेवरं असुइं॥३५॥
अर्थ कामशरीरादिकमपि सर्वमशुभमिति ज्ञात्वा । निर्वजमानः ध्यायस्व यथा जहाास कलेवरं अशुचि ॥ ३५॥