________________
१६
मूलाचारे
तथार्थद्वारेण दुःखमाह; —
आयासदुक्खवेरभयसोगकलिरागदोसमोहाणं । अहाणमावहो विय अत्थो मूलं अणत्थाणं ॥ ३१ ॥
।
आयासदुःखवैरभयशोककलिरागद्वेषमोहानाम् अशुभानामावहोपि च अर्थो मूलमनर्थानाम् ॥ ३१ ॥
टीका- आयासोऽर्थार्जनतत्परता, दुःखमसातवेदनीयकर्मोदयनिमित्तासुखरूपं, वैरं मरणानुबंधः, भयं भयकर्मोदयजनितत्रस्तता, शोकः शोककर्मोदयपूर्व के वियोगजः संतापः, कलिर्वचनप्रतिवचनकृतो द्वन्द्वः, रागो रतिकर्मोदयजनिता प्रीतिः, द्वेषोऽरतिकर्मोदयोद्भूताऽप्रीतिः, मोहो मिथ्यात्वासंयमादिरूप इत्येवमादीनामशुभानामावहोऽवस्थानंः, अर्थः स्त्रीवस्त्रसुवर्णादिरूपः, अथवैतान्य-शुभान्यावहति प्रापयतीति आयासायशुभावहः, अनर्थानां च सर्वपरिभवानां च मूलं कारणमर्थस्तस्मात्तेन यच्छुभं तच्छुभं एव न भवतीति ॥ ३१ ॥
तथा कामसुखमप्यशुभमिति प्रतिपादयति ;
दुग्गमदुलहलाभा भयपउरा अप्पकालिया लहुया । कामा दुक्खविवागा असूहा सेविज्जमाणा वि ॥ ३२ ॥ दुर्गमदुर्लभलाभा भयप्रचुरा अल्पकालिका लघुकाः । कामा दुःखविपाका अशुभाः सेव्यमाना अपि ॥ ३२ ॥
टीका – दुःखेन कृच्छ्रेण गम्यन्त इति दुर्गमा विषमस्था दुरारोहाः, दुर्लभो लाभो येषां ते दुर्लभलाभाः स्वेप्सितप्राप्तयो न भवन्ति, भयं प्रचुरं येभ्यस्ते भयप्रचुरा दंडमारणवचनादिभयसहिताः, अल्पकाले भवा अल्पकालिकाः सुष्ठु स्तोककालाः, लघुका निःसाराः, के ते ? कामा मैथुनाद्यभिलाषा दुःखं विपाक फलं येषां बंधनादि ते दुःखविपाका दुःखावसानाः अशुभाः सेव्यमाना अपि, तत्राऽपि न सुखमस्तीति भावः सर्वाशुभमवति ॥ ३२ ॥