________________
द्वादशानुप्रेक्षाधिकारः।
wwwwwwwwwwwwwwww
धिग्भवतु लोकधर्म देवा अपि च सुरपतयो महधिकाः। भुक्त्वा च सुखमतुलं पुनरपि दुःखावहा भवंति ॥ २८॥
टीका-धिग्भवतु लोकधर्म लोकस्वरूपं, यस्माद्देवाः सुरपतयोऽपि महर्द्धिका महाविभूतयो भूत्वा सौख्यमतुलं सुखमनुपमं भुक्त्वा पुनरपि दुःखावहा भवन्ति-दुःखस्य भोक्तारो भवन्तीति ॥ २८॥
लोकानुप्रेक्षामुपसंहरन्नाह;णाऊण लोगसारं णिस्सारं दीहगमणसंसारं । लोगग्गसिहरवासं झाहि पयत्तेण सुहवासं ॥ २९ ॥ ज्ञात्वा लोकसारं निस्सारं दीर्घगमनसंसारं। लोकायशिखरवासं ध्यायस्व प्रयत्नेन सुखवासं ॥ २९॥ टीका-एवं लोकस्य सारं निःसारं तु ज्ञात्वा दीर्घगमनं संसारं च ज्ञात्वा संसारं चापर्यन्तमवबुध्य लोकाग्रशिखरवासं मोक्षस्थानं सुखवासं निरुपद्रवं ध्यायस्व चिन्तय प्रयत्नेनेति ॥ २९ ॥
अशुभानुप्रेक्षास्वरूपं निरूपयन्नाह;णिरिएसु असुहमेयंतमेव तिरियेसु बंधरोहादी । मणुएसु रोगसोगादियं तु दिवि.माणसं असुहं ॥३०॥
नरकेषु अशुभमेकांतमेव तिर्यक्षु बंधरोधादयः । - मनुजेषु रोगशोकादयस्तु दिवि मानसं अशुभं ॥ ३० ॥
टीका-नरकेष्वशुभमेकान्ततः सर्वकालमशुभमेव, तिर्यक्षु महिषाश्ववारणाजादिषु रोधादयो बंधनधरणदमनदहनताड़नादयः, मनुष्येषु रोगशोकादयस्तु, दिवि देवलोके मानसमशुभं परप्रेषणवाहनमहर्द्धिकदर्शनेन मनोगतं सुष्ठु दुःखमिति ॥ ३०॥