________________
मुलाचारे
टीका-तत्र च लोके जीवाः स्वकर्मनिवर्तितं स्वक्रियानिष्पादितं सुखं दु:खं चानुभवन्ति, अनंतभवसागरे च जन्ममरणं पुनर्भवं च पुनरावृत्तिं च भीमे भयानके कुर्वन्तीत्यर्थः ॥ २५ ॥
पुनरप्यसमंजसमाह;मादा य होदि धूदा धूदा मादुत्तणं पुण उवेदि। पुरिसो वि तत्थ इत्थी पुमं च अपुमं च होइ जए ॥२६॥ माता च भवति दुहिता दुहिता मातृत्वं पुनरुपैति । पुरुषोपि तत्र.स्त्री पुमांश्च अपुमांश्च भवति जगति ॥ २६ ॥
टीका-अस्मिंल्लोके संसारे माता च भवति दुहिता सुता, दुहिता च पुनर्मातृत्वमुपैति प्रामोति, पुरुषोऽपि तत्र जगति स्त्री भवति, स्यपि पुमान्, पुरुषोऽपुमान्नपुंसकं च लोके भवतीति संबंधः ॥ २६ ॥
पुनरपि लोकगतसंसारविरूपतां दर्शयन्नाह;होऊण तेयसत्ताधिओ दु बलविरियरूवसंपण्णो। जादो वच्चघरे किमि धिगत्थु संसारवासस्स ॥ २७ ॥
भूत्वा तेजःसत्त्वाधिकस्तु बलवीर्यरूपसंपन्नः। जातः वर्चीगृहे कृमिः धिगस्तु संसारवासम् ॥ २७ ॥
टीका-विदेहस्वामी राजा तेजः-प्रतापः सत्त्वं स्वाभाविकसौष्ठवं ताभ्यामधिकस्तेजःसत्वाधिको भूत्वा तथा बलवीर्यरूपसम्पन्नश्च भूत्वा पश्चात्स राजा व!गृहेऽशुचिस्थाने कृमिः संजातो यत एवं ततः संसारवासं धिगस्तु धिग्भवतु संसारे वासमिति ॥ २७ ॥
पुनरपि लोकस्य स्वरूपमाह;धिग्भवदु लोगधम्म देवा वि य सुरवदीय महड्डीया । भोत्तूण सुक्खमतुलं पुणरवि दुक्खावहा होति ॥२८॥