________________
समयसाराधिकारः ।
दापमा ब्रूयाः, दुःखं सहस्व केनचित्कारणान्तरेणोत्पन्नामंप्रीतिं पीडारूपां सम्यगनुभव, निद्रां च जय - अकाले स्वापक्रियां वर्जय, मैत्रीं च भावय सर्वैः सत्वैः सह मैत्रीं भावय परेषां दुःखानुत्पत्यभिलाषं कुरु, वैराग्यं च सुष्ठु भावय । यतः सर्वस्य प्रवचनस्य सारभूतमेतदिति ॥ ४ ॥
तथैवंभूतश्च भवेत्;--
९७
अव्यवहारी एक्को झाणे एयग्गमणो भव णिरारंभी । चत्तकसायपरिग्गह पयत्तचेट्ठो असंगो य ॥ ५ ॥
अव्यवहारी एको ध्याने एकाग्रमना भवेन्निरारंभः । त्यक्तकषायपरिग्रहः प्रयत्नचेष्टः असंगश्च ॥ ५ ॥
टीका - व्यवहरतीति व्यवहारी न व्यवहार्यव्यवहारी लोकव्यवहार रहितो भवेत्तको सहाय भवेज्ज्ञानदर्शनादिकं मुक्त्वा ममान्यन्नास्तीत्येकत्वं भावयेतथा ध्याने धर्मध्याने शुक्लध्याने चैकाग्रमनास्तन्निष्ठचित्तो भवेत्तथा निरांरभ आरंभान्निर्गतः स्यात्तथां त्यक्तकषायः क्रोधमानमायांलोभादिरहितस्तथा त्यक्तपरिग्रहोऽथवा त्यक्तः कषायः परिग्रहो येनासौ त्यक्तकषायपरिग्रह्मे भवेतथा प्रयत्नचेष्टः सर्वथा प्रयत्नपरो भवेत्तथाऽसंगः संगं केनाऽपि मा कुर्या - त्सवथा संगविवर्जितो भवेदिति ॥ ५ ॥
पुनरपि मुख्यरूपेण चारित्रस्य प्राधान्यं न श्रुतस्य यतः;
थो
सिक्खिदे जिणइ बहुसुदं जो चरित्तसंपुण्णो । जो पुण चरितहीणो किं तस्स सुदेण बहुएण ॥ ६ ॥ स्तोके शिक्षिते जयति बहुश्रुतं यः चारित्र संपूर्णः ॥
यः पुनः चारित्रहीनः किं तस्य श्रुतेन बहुकेन ॥ ६ ॥
१- २ - ३ इमे तथा शब्दाः ख-ग-पुस्तके न संति । ४ मा कृथाः ख-ग
पुस्त