SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९६ मूलाचारे ww इति द्रव्यबलं क्षेत्रबलं कालबलं भावबलं चाश्रित्य तपः कर्त्तव्यं, यथा वातपित्तश्लेष्मादिकं क्षोभं नोपयाति तथा यत्नः कर्त्तव्यः सारस्य कथनमेतदिति ॥२॥ तथा वैराग्यमपि समयस्य सारो यतः,धीरो वइरग्गपरो थोवं हि य सिक्खिदूण सिज्झदि हु। ण य सिज्झदि वेरग्गविहीणो पढिदूण सव्वसत्थाइं॥३॥ धीरो वैराग्यपरः स्तोकं हि शिक्षित्वा सिध्यति हि । न च सिध्यति वैराग्यविहीनः पठित्वा सर्वशास्त्राणि ॥ ३॥ टीका-धीरो धैर्योपेतः सर्वोपसर्गसहनसमर्थः वैराग्यपरो रागादिभिविनिर्मुक्तः शरीरसंस्कारभोगनिर्वेदपरो विषयविरक्तभावः स्तोकमपि सामायिकादिस्वरूपं हि स्फुटं शिक्षित्वा सम्यगवधार्य सिध्यति कर्मक्षयं करोति, न चैव हि सिध्यति वैराग्यहीनः पठित्वापि सर्वाण्यपि शास्त्राणि, हि यस्मात्तस्माद्वैराग्यपूर्वकं करोति चारित्राचरणं प्रधानमिति ॥ ३॥ तथा सम्यक्चारित्राचरणायोपदेशमाह;भिक्खं चर वस रणे थोवं जेमेहि मा बहू जंप । दुःखं सह जिण णिद्दा मत्तिं भावेहि सुट्ट वेरग्गं ॥४॥ भिक्षां चर वस अरण्ये स्तोकं जेम मा बहु जल्प । दुःखं सहस्व जय निदां मैत्रीं भावय सुष्टु वैराग्यं ॥ ४ ॥ टीका-भिक्षां चर कृतकारितानुमतिरहितं पिंडं गृहाण, वसारण्ये स्त्रीपशुपांडकादिवर्जितेषु गिरिगुहाकंदरादिषु प्रदेशेषु वस, स्तोकं प्रमाणयुक्तं स्वाहारचतुर्थभागहीनं भुक्ष्वाभ्यवहर, मा च बहु प्रलापयुक्तं जल्प-असारं वचनं कदाचि १ तिष्ठ ख-ग । २ मा चासारं कदाचिदपि वचनं भवान् ब्रूयात् इति ख-ग।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy