SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ मूलाचारे टीका-स्तोकेऽपि शिक्षिते पंचनमस्कारमात्रेऽपि परिज्ञाते तस्य स्मरण सति जयति बहुश्रुतं दशपूर्वधरमपि करोत्यधः यश्चारित्रसंपन्नो यो यथोक्तचारित्रेण युक्तः, यः पुनश्चारित्रहीनः किं तस्य श्रुतेन बहुना । यतः स्तोकमात्रेण श्रुतेन संपन्नः सन् बहुश्रुतं जयति ततश्चारित्रं प्रधानमत्र ज्ञानस्य दर्शनस्य तपसोपि यतो हेयोपादेयविवेकमन्तरेण श्रद्धानमन्तरेण च सम्यक्चारित्रं न युज्यते ततः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यनेन सह न विरोध इति ॥ ६॥ तथैव प्रतिपादयन्नाह;णिज्जावगो य णाणं वादो झाणं चरित्त णावा हि । भवसागरं तु भविया तरंति तिहिसण्णिपायेण ॥ ७ ॥ निर्जीवकश्च ज्ञानं वातः ध्यानं चारित्रं नौर्हि । भवसागरं तु भव्याः तरंति त्रिसन्निपातेन ॥ ७॥ टीका-नौचारित्रयो रूपकालंकारमाह संसारसमुद्रतरणे-ननु समुद्रतरणे पोतेन भवितव्यं निर्जीवकेन वातेन च तत्कथमत्रेत्याशंकायामाह;-निर्जीवको यः पोते सर्वमुपसर्गजातं पश्यति स निर्जीवको ज्ञानं, वातो ध्यानं, चारित्रं नौः पोतः, भवः संसारः सागरः समुद्रो जलधिः, तु एवकारार्थः । भव्या रत्नत्रयोपेतमनुजास्तरंति समतिकामंति त्रिसंनिपातन त्रयाणां संयोगेन । यथा निर्जीवकवातनौसंयोगेन वणिजः समुद्रं तरंति एवं ज्ञानध्यानचारित्रसंयोगेन संसारं तरंत्येव भव्या इति ॥ ७॥ किमिति कृत्वा त्रयाणां संयोगे मोक्ष इत्याशंकायामाह;णाणं पयासओ तओ सोधओ संजमो य गत्तियरो। तिण्हं पिय संपजोगे होदि हु जिणसासणे मोक्खो॥८॥ १ सहाविरोध इति ख-ग।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy