________________
समयसाराधिकारः ।
९९
ज्ञानं प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः । त्रयाणामपि च संयोगे भवति हि जिनशासने मोक्षः ॥ ८ ॥
टीका – यतो ज्ञानं प्रकाशकं द्रव्यस्वरूपप्रदर्शकं हेयोपादेयविवेककारणं, तपः शोधकं शोधयति कर्माणीति शोधकं सर्वकर्मणामपायकारणमात्रं, तपःशब्देन ध्यानं परिगृह्यते तस्य प्रस्तुतत्वादथवा सर्वस्य वा ग्रहणं तन्मध्यपतितत्वात् ध्यानस्य, संयमश्च गुप्तिकरः इन्द्रियनिग्रहो जीवदया च कर्मागमप्रतिबंधकारणमतो ज्ञानेन प्रकाशिते संयमः परिहारो युक्तः परिहारे च ध्यानं निर्विघ्नतया प्रवर्त्ततेऽतस्त्रयाणामपि संयोगे भवति स्फुटं जिनशासने मोक्षो न पूर्वेण विरोधो द्रव्यार्थिकनयाश्रयणादिति ॥ ८ ॥
यदि पुनरेतै रहितानि ज्ञानलिंगतपांसि करोति तदा किं स्यात्;णाणं करणविहीणं लिंगग्गहणं च संजमविहूणं । दंसणरहिदो य तवो जो कुणइ णिरत्थयं कुणइ ॥ ९ ॥
ज्ञानं करणविहीनं लिंगग्रहणं च संयमविहीनं । दर्शनरहितं च तपः यः करोति निरर्थकं करोति ॥ ९ ॥
टीका - ज्ञानं करणविहीनं करणशब्देनात्र षडावश्यकादिक्रिया चारित्रं परिगृह्यते, लिंगं जिनरूपमचेलकत्वादियुक्तता लिंगस्य ग्रहणमुपादानं तत्संयमविहीनं संयमेन विना, दर्शनं सम्यक्त्वं तेन रहितं च तपो यः करोति स पुरुषः कर्मनिर्जरारहितं निरर्थकं करोति । ज्ञानं चारित्रविमुक्तं लिंगोपादानं चेन्द्रियजयरहितं दयारहितं च यः करोति सोऽपि न किंचित्करोतीति तस्मात्सम्यग्दर्शनज्ञानचारित्रयुक्तान्येवेति ॥ ९ ॥
सम्यग्ज्ञानादियुक्तस्य तपसो ध्यानस्य च माहात्म्यमाह; -
तवेण धीरा विधुणंति पावं अज्झप्पजोगेण खवंति मोह | संखीणमोहा धुदरागदोसा ते उत्तमा सिद्धिगदिं पयंति