SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मूलाचारे wwwwwwwwwwwwwwwwwwwwwww www तपसा धीरा विधुन्वति पापं अध्यात्मयोगेन क्षपयंति मोहं । संक्षीणमोहा धुतरागद्वेषाः ते उत्तमाः सिद्धिगति प्रयांति॥१०॥ टीका-ततो ज्ञानादियुक्तेन तपसा धीराः सर्वसत्त्वसंपन्ना विधुन्वति विनाशयंति पापं चारित्रमोहं कर्माण्यप्यशुभानि, अध्यात्मयोगेन परमध्यानेन क्षपयंति प्रलयं नयंति मोहं मिथ्यात्वादिकं ततः क्षीणमोहा धुतरागद्वेषा विनष्टज्ञानावरणदर्शनावरणान्तराया निर्मूलिताशेषकर्माणश्च, ते संतस्ते साधव उत्तमाः सर्वप्रकृष्टगुणशीलोपेताः सिद्धिं गतिमनंतचतुष्टयं प्रयांति प्राप्नुवंति लोकाग्रमिति ॥ १०॥ पुनरपि ध्यानस्य माहाम्यमाह;लेस्साझाणतवण य चरियविसेसेण सुग्गई होइ । तह्मा इदराभावे झाणं संभावए धीरो ॥ ११ ॥ 'लेश्याध्यानतपोभिश्च चर्याविशेषेण सुगतिर्भवति । तस्मादितराभावे ध्यानं संभावयेद्धीरः ॥ ११ ॥ टीका-विशेषशब्दः प्रत्येकमभिसंबध्यते। लेश्याविशेषेण तेजः पद्मशुक्ललेश्याभिः, ध्यानविशेषेण धर्मध्यानशुक्लध्यानाभ्यां,तपोविशेषेण चारित्रानुकूलका यक्लेशादिभिः,चारित्रविशेषेणचसामायिकशुद्धिपरिहारच्छेदोपस्थापनसूक्ष्मसाम्प राययथाख्यातचारित्रैः सुगतिर्भवति शोभना गतिः शुद्धदेवगतिः सिद्धगतिर्मनुष्यगतिश्च दर्शनादियोग्या । यद्यपि विशेषशब्दश्चारित्रेण सह संगतस्तथापि सर्वैः सह संबध्यत इत्यर्थविशेषदर्शनादथवा न चारित्रेण संबंधः समासकरणाभावात्तस्मात्सर्वैः सह संबंधः करणीयः, मध्ये च विभक्तिश्रवणं यत्तत्प्राकृतबलेन कृतं न तत्तत्र । अथवा सुगतिर्मोक्षगतिरेवाभिसंबध्यते यत एवं तस्मादितरेषामभावेऽपि लेश्यातपश्चारित्राणामभावेऽपि ध्यानं संभावयेद्धीरः सम्यग्ध्यानं प्रयोजयेद्यतः सर्वाण्येतानि ध्यानेऽन्तर्भूतानि । सर्वैर्यद्यपि सुगतिर्भवति तथापि ध्यानं प्रधानं यतः सम्यग्दर्शनाविनाभावि ॥ ११ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy