________________
समयसाराधिकारः ।
१०१
सम्यग्दर्शनस्य माहात्म्यमाह;सम्मत्तादो णाणं णाणादो सव्वभावउवलद्धी । उवलद्वपयत्थो पुण सेयासेयं वियाणादि ॥ १२ ॥
सम्यक्त्वात् ज्ञानं ज्ञानात् सर्वभावोपलब्धः । उपलब्धपदार्थः पुनः श्रेयः अश्रेयः विजानाति ॥ १२ ॥ टीका - सम्यक्त्वाज्जिनवचनरुचेर्ज्ञानं स्यात्सम्यक्त्वेन ज्ञानस्य शुद्धिर्यतः क्रियतेऽतः सम्यग्ज्ञानं सम्यक्त्वाद्भवति, सम्यग्ज्ञानाच्च सर्वभावोपलब्धिर्भवति यतः सर्वेषां द्रव्याणां पदार्थानामस्तिकायानां सभेदानां सपर्यायाणां च सम्यग्ज्ञानेन परिच्छित्तिः क्रियते । दर्शनस्य विषयो विविक्तो न भवति ज्ञानात् कथं तर्हि तत्पूर्वकं ज्ञानं नैष दोषो विपरीतानध्यवसायाकिंचित्करत्वादीनि स्वरूपाणि ज्ञानस्य सम्यक्त्वेनापनीयंत इति । उपलब्धपदार्थश्व पुनः श्रेयः पुण्यं कर्मापायकारणं चाश्रेयः पापं कर्मबंधकारणं च विजानाति सम्यगवबुध्यत इति ॥ १२ ॥
तथा;
सेयासेयविदण्डू उददुस्सील सीलवं होदि । सीलफलेणब्भुदयं तत्तो पुण लहदि णिव्वाणं ॥ १३ ॥
श्रेयश्रेयोवित् उद्धृतदुःशीलः शीलवान् भवति । शीलफलेनाभ्युदयं ततः पुनः लभते निर्वाणं ॥ १३ ॥
टीका - ततः श्रेयसोऽश्रेयसश्च वित् वेत्ता श्रेयोऽश्रेयोवित्सन् उद्धृतदुःशीलः सन् शीलवानष्टादशशीलसहस्राधारः स्यात्ततः शीलफलेनाभ्युदयः संपूर्ण चारित्रं अथवोद्धतदुःशीलो निवृत्तपापक्रियः स्यात्ततश्चारित्रसमन्वितः स्यात्तच्च शीलं तस्माच्चाभ्युदयः स्वर्गादिसुखाद्यनुभवनं ततश्च लभते पुनर्निणं सर्वकर्मापायोत्पन्नसुखानुभवनमिति ततः सर्वेण पूर्वग्रंथेन चारित्रस्य माहात्म्यं दत्तं ॥ १३ ॥