SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मूलाचारे यतश्च सम्यक्चारित्रात्सुगतिस्ततः;सव्वं पि हु सुदणाणं सुट्ट सुगुणिदं पि सुट्ट पढिदं पि । समणं भट्ठचरित्तं ण हु सक्को सुग्गइं णेदुं ॥ १४ ॥ सर्वमपि हि श्रुतज्ञानं सुष्टु सुगुणितमपि सुष्टु पठितमपि । श्रमणं भ्रष्टचारित्रं न हि शक्नोति सुगति नेतुं ॥ १४॥ टीका-चारित्रस्य प्राधान्यं यतः सर्वमपि श्रुतज्ञानं सुष्टु कालादिशुद्ध्या शोभनविधानेन परिणामशुद्ध्या गुणितं परिवर्तितं सुष्टु पठितं च शोभनविधानेन श्रुतं व्याख्यातमवधारितं च सत्, श्रमणं यतिं भ्रष्टचारित्रं चारित्रहीनं नैव खलु स्फुटं शक्तं समर्थ सुगतिं नेतुं प्रापयितुमथवा न शक्नोति परमगति नेतुमित्यतश्चारित्रं प्रधानमिति ॥ १४ ॥ इममेवा) दृष्टांतेन पोषयन्नाह;जदि पडदि दीवहत्थो अवडे किं कुणदि तस्स सो दीवो। जदि सिक्खिऊण अणयं करेदि किं तस्स सिक्खफलं॥१५ यदि पतति दीपहस्तः अवटे किं करोति तस्य स दीपः। यदि शिक्षित्वा अनयं करोति किं तस्य शिक्षाफलं ॥१५॥ टीका-ननु शिक्षाफलेन भवितव्यमित्याशंकायामाह;--यदि प्रदीपहस्तोऽप्यवटे कूपे पतति ततः किं करोति तस्यासौ प्रदीपः । प्रदीपो हि गृह्यते चक्षुरिन्द्रियसहकारित्वेन हेयोपादेयनिरूपणाय च तद्यदि न कुर्यात्तर्हि तद्ग्रहणे न किंचित्प्रयोजनं एवं यदि श्रुतज्ञानं शिक्षित्वा सम्यगवधार्यानयं चारित्रभंगं करोति किं तस्य शिक्षाफलं यावता हि न किंचित् । श्रुतावधारणस्यैतत्फलं चारित्रानुष्ठानं तद्यदि न भवेच्छूतमप्यश्रुतकल्पमर्थक्रियाऽभावादिति ॥ १५॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy