________________
समयसाराधिकारः।
एवं चारित्रस्य प्राधान्यमुपन्यस्य शुद्धिकारणमाह;पिंड सेज्ज उवधि उग्गम उप्पायणेसणादीहि। . चारित्तरक्खणटुं सोधणयं होदि सुचरितं ॥ १६ ॥ पिंडं शय्यां उपधिं उद्गमोत्पादनैषणादिभ्यः । चारित्ररक्षणार्थ शोधयन् भवति सुचरित्रं ॥ १६ ॥
टीका–पिंडं भिक्षा, शय्यां वसत्यादिकं, उपधिं ज्ञानोपकरणं शौचोपकरणं चेति उद्गमोत्पादनैषणादिभ्यो दोषेभ्यः शोधयश्चारित्ररक्षणार्थं सुचरित्रो भवति । अथवा चारित्ररक्षणार्थ पिंडमुपधि शय्यां च शोधयतः सुचरित्रं भवति शुद्धिश्च तेषामुद्गमोत्पादनैषणादोषाणामभाव इति । अथवा पिंडादीनामुद्गमादिदोषेभ्यो शोधनं यच्चारित्ररक्षणार्थ तत्सुचरित्रं भवतीति ॥ १६ ॥
येन लिंगेन तच्चारित्रमनुष्ठीयते तस्य लिंगस्य भेदं स्वरूपं चनिरूपयन्नाह;अचेलक्कं लोचो वोसट्टसरीरदा य पडिलिहणं । एसो हु लिंगकप्पो चदुविधो होदि णायव्वो ॥ १७ ॥
अचेलकत्वं लोचो व्युत्सृष्टशरीरता च प्रतिलेखनं । एष हि लिंगकल्पः चतुर्विधो भवति ज्ञातव्यः ॥ १७ ॥
टीका-अचेलकत्त्वं चेलशब्देन सर्वोऽपि वस्त्रादिपरिग्रह उच्यते, यथा तालशब्देन सर्वोऽपि वनस्पतिः, तालफलं न भक्ष्य इत्युक्ते सर्व वनस्पतिफलं न भक्षयिष्यामीति ज्ञायते, एवं चेलपरिहारेण सर्वस्य परिग्रहस्य परिहारः, न चेलकत्त्वमचेलकत्त्वं सर्वपरिग्रहपरिहरणापायः, एतदप्यचेलकत्त्वमुपलक्षणपरं तेनाचेलकत्वौद्देशिकादयः सर्वेऽपि गृह्यन्त इति । लोचः स्वहस्तपरहस्तैर्मस्तककूर्चगतकेशापनयनं । व्युत्सृष्टशरीरता च स्नानाभ्यंगनांजनपरिमर्दनादि
१ " चारित्ररक्षणार्थ शोधयतो भवति सुचरित्रं” “चारित्ररक्षणार्थ शोधनं यद्भवति सुचारित्रमित्येतद्दयमपि संस्कृतं भवितुमर्हति” । -संपादक ।