________________
१०४
मूलाचारे
संस्काराभावः । प्रतिलेखनं मयूरपिच्छग्रहणं । अचेलंकत्त्वं नैःसंग्यचिह्नं, सद्भावनायाश्चिद्धं लोचः व्युत्सृष्टदेहत्वमपरागतायाश्विनं, दयाप्रतिपालनस्य लिंगं मयूर पिच्छिकाग्रहणमिति, एष एवं लिंगकल्पो लिंगविकल्पश्चतुर्विधो भवति ज्ञातव्यश्चारित्रोपकारकत्वादिति ॥ १७ ॥
अथ के तेऽचेलकत्वादय इत्याशंकायामाह ; -
अचेलकुद्देसियसेज्जाहररायपिंड किदियम्मं ।
वद जेट्ठ पडिक्कमणं मासं पज्जो समणकप्पो ॥ १८ ॥ अचेलकत्वौद्देशिकं शय्यागृहराजपिंडः कृतिकर्म ।
व्रतं ज्येष्ठः प्रतिक्रमणं मासः पर्या श्रमणकल्पः ॥ १८ ॥
यथा
टीका - अचेलकत्त्वं वस्त्राद्यभावः, अत्र यो नञ् स उत्तरत्राभिसंबंधनीयः, चेलकस्याभावस्तथौद्दोशकस्याभावस्तथा शय्यागृहस्याभावस्तथा राजपिंडस्याभावः । उद्दिश्य न भुंक्ते, उद्देशे भवस्य दोषस्य परिहारोऽनौशिको मदीयायां वसतिकायां यस्तिष्ठति तस्य दानादिकं ददामि नान्यस्येत्येवमभिप्रेतस्य दानस्य परिहारः, शय्यागृहपरिहारो मठगृहमपि शय्यागृहमित्युच्यते तस्यापि परिहारः, राजपिंडस्य परित्यागो वृष्यान्नस्येन्द्रियप्रवर्धनकारिण आहारस्य परित्यागोऽथवा स्वार्थ दानशालाया ग्रहणं यत्तस्य परित्यागः, कृतिकर्म स्वेन वंदनादिकरणे उद्योगः, व्रतान्यहिंसादीनि तैरात्मभावनं तैः सह संयोगः संवासस्तद्व्रतं, ज्येष्ठो ज्येष्ठत्वं मिथ्यादृष्टिसासादन सम्यङ्मिथ्यादृष्ट्या - संयतसम्यग्दृष्टिसंयतासंयतानां ज्येष्ठः सर्वेषां पूज्यो बहुकालप्रवजिताया अप्यार्थिकाया अय प्रव्रजितोऽपि महाँस्तथेन्द्रचक्रधरादीनामपि महान् यतोऽतो ज्येष्ठ इति, प्रतिक्रमणं सप्तप्रतिक्रमणैरात्मभावनं दैवसिकादिप्रतिक्रमणानुछाने; मासोः योगग्रहणात्प्राङ्मासमात्रमवस्थानं कृत्वा वर्षाकाले योगो ग्राह्यस्तथा योगं समाप्य मासमात्रमवस्थानं कर्त्तव्यं । लोकस्थितिज्ञापनार्थमहिंसादि१ त्यागः इत्येव ग-पुस्तके । २ समापयित्वा ख-ग-पुस्तके |