________________
समयसाराधिकारः।
. १०५
व्रतपरिपालनार्थं च योगात्प्राङ्मासमात्रावस्थानस्य (म) पश्चाच्च मासमात्रावस्थानं श्रावकलोकादिसंक्लेशपरिहरणायाथवा ऋतौऋतौमासमासमात्रस्थातव्यं मासमात्रं च विहरणं कर्त्तव्यमिति मासः श्रमणकल्पोऽथवा वर्षाकाले योगग्रहणं चतुर्षु चतुर्पु मासेषु नंदीश्वरकरणं च मासश्रमणकल्पः । पज्जो-पर्या पर्युपासनं निषधकायाः पंचकल्याणस्थानानां च सेवनं पर्येत्त्युच्यते, श्रमणस्य श्रामण्यस्य वा कल्पो विकल्पः श्रमणकल्पः । अनेन प्रकारेण दशप्रकारः श्रमणकल्पो वेदितव्य इति ॥ १८॥ - लोचो मूलगुणे व्याख्यातस्तथा व्युत्सृष्टशरीरत्वं चास्नानमूलगुणे व्याख्यातमतो न तयोरिह प्रपंचस्ततः प्रतिलेखनस्वरूपमाह;-- रजसेदाणमगहणं मद्दव सुकुमालदा लहुत्तं च । जत्थेदे पंचगुणा तं पडिलिहणं पसंसति ॥ १९ ॥ रजःस्वेदयोरग्रहणं मार्दवं सुकुमारता लघुत्वं च । यत्रैते पंचगुणास्तं प्रतिलेखनं प्रशंसंति ॥ १९ ॥
टीका-रज स्वेदयोर्यत्राग्रहणं रजसा पांस्वादिना प्रस्वेदेन च यन्मलिनं न भवति । रजसोऽग्रहणमेको गुणः स्वेदस्य चाग्रहणं द्वितीयो गुणः, मार्दवं मृदुत्वं चक्षुषि प्रक्षिप्तमपि न व्यथयति यतः स तृतीयो गुणः, सुकुमारता सौकुमार्य दर्शनीयरूपं चतुर्थो गुणः, लघुत्त्वं च गुरुत्वस्याभावः प्रमापास्थानमुत्क्षेपणाँदौ योग्यता पंचमो गुणः, यत्रैते पंचगुणा द्रव्ये संति तत्प्रतिलेखनं मयूरपिच्छग्रहणं प्रशंसंत्यभ्युपगच्छन्त्याचार्या गणधरदेवादय इति ॥ १९ ॥
१ पंचकल्याणानां ग। स्थानानां पदं नास्ति तत्र । २ 'अतो, इति ख-गपुस्तके नास्ति । ३ उत्क्षेपणावक्षेपणादौ ग-पुस्तके ।