SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०६ मूलाचारे :www ननु चक्षुषैव प्रमार्जनं क्रियते किमर्थ प्रतिलेखनधारणं, नैष दोषो न हि चक्षुः सर्वत्र प्रवर्त्तते यतः;मुहमा हु संति पाणा दुप्पेक्खा अक्खिणो अगेज्झा हु । तह्मा जीवदयाए पडिलिहणं धारए भिक्खू ॥२०॥ सूक्ष्मा हि संति प्राणा दुष्प्रेक्ष्या अक्षणा अग्राह्या हि । तस्मात् जीवदयायै प्रतिलेखनं धारयेत् भिक्षुः ॥ २० ॥ टीका-सूक्ष्माः सुष्ठु क्षुद्राः, हु-स्फुटं, संति विद्यन्ते, प्राणा द्वीन्द्रियादय एकेन्द्रियाश्च, दुःप्रेक्ष्या दुःखेन दृश्या मांसचक्षुषा चाग्राह्या मांसमयेक्षणेन ग्रहीतुं न शक्या यत एवं तस्मात्तेषां जीवानां दयानिमित्तं प्राणसंयमप्रतिपालनार्थ प्रतिलेखनं धारयेन्मयूरपिच्छिंकां गृह्णीयाद्भिक्षुः साधुरिति ॥२०॥ प्रतिलेखनमन्तरेण न साधुः;उच्चारं पस्सवणं णिसि सुत्तो उढिदो हु काऊण । अप्पडिलिहिय सुवंतो जीववहं कुणदि णियदं तु ॥२१॥ उच्चारं प्रस्रवणं निशि सुप्त उत्थितो हि कृत्वा । अप्रतिलेख्य स्वपन जीववधं करोति नियतं तु ॥ २१ ॥ टीका-उच्चारं पुरीपोत्सर्ग प्रस्रवणं मूत्रश्लेष्मादिकं च कृत्वा निशि रात्रौ प्रसुप्तो निद्राक्रान्त उत्थितश्चेतयमानोऽपि चक्षुषोऽप्रसरेऽप्रतिलेख्य प्रतिलेखनमंतरेण पुनः स्वपन् गच्छन्नुद्वर्तनपरावर्तनानि च कुर्वन् जीववधं जीवानां वधं जीवघातनं परितापनादिकं च नियतं निश्चितं निश्चयेन करोति । निशि सुप्तः पुनरुत्थित उच्चारं प्रस्रवणं च कृत्वा पुनः स्वपन प्रतिलेखनमंतरेण निश्चयेन जीवविघातादिकं च कुर्यादिति ॥ २१ ॥ १ सयूरपिच्छं ख-ग-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy