SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः। १०७ ननु प्रतिलेखनेनाऽपि जीवानां पीडा भवतीति ततः किमुच्यते प्रतिलेखनधारणमित्याशंक्य प्रतिलेखनस्य कस्यापि सौकुमार्यमाह;ण य होदि णयणपीडा अच्छि पिभमाडिदे द पडिलेहे। तो सुहुमादी लहुओ पडिलेहो होदि कायवो ॥ २२॥ न च भवति नयनपीडा अक्षिण अपि भ्रामिते तु प्रतिलेखे । . ततः सूक्ष्मादिः लघुः प्रतिलेखो भवति कर्तव्यः ॥ २२॥ टीका-न च भवति नयनपीड़ा चक्षुषो व्यथा अक्षिण नयनेऽपि भ्रामिते प्रवेशिते प्रतिलेखे मयूरपिच्छे यतस्ततः सूक्ष्मत्वादियुक्तो लघुप्रमाणस्थः प्रति-- लेखो भवति कर्त्तव्यो जीवदयानिमित्तमिति ॥ २२॥ ___ प्रतिलेखनास्थानान्याह;ठाणे चंकमणादाणे णिक्खेवे सयणआसण पयत्ते । पडिलेहणेण पडिलेहिज्जइ लिंगं च होइ सपक्खे ॥२३॥ स्थाने चंक्रमणे आदाने निक्षेपे शयनासने प्रयत्नेन । प्रतिलेखनेन प्रतिलिख्यते लिंगं च भवति स्वपक्षे ॥ २३ ॥ टीका-स्थाने कायोत्सर्गे चंक्रमणे गमने आदाने कुंडिकादिग्रहणे निक्षेपे पुस्तकादीनां निक्षेपणे शयने आसने उद्वर्त्तनपरावर्त्तनादौ संस्तरग्रहणे भुक्तोच्छिष्टप्रमार्जने च यत्नेन प्रतिलेखनेन प्रतिलिख्यते प्रमापते जीवानां रक्षा क्रियते यतो लिंगं च चित्रं च स्वपक्षे भवति यतोऽयं वाताधिको न भवति संयतोऽयमिति लिंगं भवति तत: प्रतिलेखनधारणं साधूक्तं युक्त्यागमाँविरोधि चेति । न च प्राणिघातयोगात्तेषामुत्पत्तिः कार्त्तिकमासे स्वत एव पतनात्, यथाहारस्य शुद्धिः क्रियते एवमुपकरणादिकस्यापि कार्येति ॥२३॥ १ कस्येति शब्दो ग-पुस्तके नास्ति । २ पिंछे ख-ग-पुस्तके । ३ उद्वर्तनपरावर्तने ख-ग-पुस्तके । ४ माविरोधाच्चेति ख-ग-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy