________________
मूलाचारे...mmmwwwmmmmmmmmmm
अनेन लिंगेन युक्तस्याचरणफलमाह;- - पोसह उवहीपक्खे तह साहू जो करेदि णावाए। णावाए कल्लाणं चादुम्मासेण णियमेण ॥ २४ ॥ प्रौषधं उभयपक्षयोस्तथा. साधुः यः करोति नापाये। नयते कल्याणं चातुर्मासेन नियमेन ॥ २४ ॥ टीका-अनेन लिंगेन युक्तः सन् साधुर्यः करोति प्रोषधमुपवासमुभयपक्षयोः कृष्णचतुर्दश्यां शुक्लचतुर्दश्यां च, णावाए-नापाये तयोरविनाशे सति, णावाए-नयते प्राप्नोति, कल्लाणं-कल्याणं परमसुखं, चातुर्मासेन चातुमासिकप्रतिक्रमणेन, नियमेन सांवत्सरिकप्रतिक्रमणेन च सह, नियमेन निश्चयेन वा । चातुमासिकोपवासेन सांवत्सरिकोपवासेन च सह यः साधुः कृष्णचतुर्दश्यां शुक्लचतुर्दश्यां चोपवासं करोति निरन्तरममुंचन् स प्राप्नोति कल्याणं निश्चयेन । अथवा कृष्णपक्षे शुक्लपक्षे चोपवासं यः करोति साधुरपायमंतरेण स साधुश्चातुर्मासिकेन नियमेन कल्याणं प्रायश्चित्तं तथापि प्राप्नोत्यथवा न प्रामोतीति संबंध इति ॥ २४ ॥
एवं पिंडादिकं शोधयतः सुचरित्रं भवति, यः पुनर्न शोधयेत्तस्य फलमाह;पिंडोवधिसेज्जाओ अविसोधिय जो य भुंजदे समणो। मूलहाणं पत्तो भुवणेसु हवे समणपोल्लो॥२५॥ . पिंडोपधिशय्या अविशोध्य यश्च भुक्ते श्रमणः ।
मूलस्थानं प्राप्तः भुवनेषु भवेत् श्रामण्यतुच्छः ॥ २५ ॥ टीका-पिंडमुपधिं शय्यां चाहारोपकरणावासादिकमावशोध्य च शुद्धिमकृत्वा यो भुंक्ते सेवते श्रमणः स मूलस्थानं प्राप्तो गृहस्थः संजातः भुवने लोकमध्ये चासौ श्रामण्यतुच्छो यतित्वहीनो भवेदिति ॥ २५ ॥