________________
समयसाराधिकारः ।
तथा;
तस्स ण सुज्झइ चरियं तवसंजमणिञ्चकालपरिहीणं । आवासयं ण सुज्झइ चिरपव्वइयो वि जइ होइ ॥ २६ ॥ तस्य न शुध्यति चारित्रं तपःसंयमनित्यकालपरिहीनं । आवश्यकं न शुध्यति चिरप्रव्रजितोपि यदि भवति ॥ २६ ॥
१०९
टीका - पिंडादिशुद्धिमन्तरेण यस्तपः करोति तस्य न शुद्ध्यति चारित्रं तपःसंयमाभ्यां नित्यकालं परिहीणो यत आवश्यकक्रिया न तस्य शुद्वा । यद्यपि चिरप्रव्रजितो भवति तथापि किं तस्य चारित्रादिकं भवति यदि पिंडादिशुद्धिं न कुर्यादिति ॥ २६ ॥
पुनरपि चारित्रस्य प्राधान्यमाह;
मूलं छित्ता समणो जो गिण्हादी य बाहिरं जोगं । बाहिरजोगा सव्वे मूलविहूणस्स किं करिस्संति ॥२७॥ मूलं छित्त्वा श्रमणो यो गृह्णाति च बाह्यं योगं । बाह्ययोगा सर्वे मूलविहीनस्य किं करिष्यति ॥ २७ ॥ टीका - मूलगुणानहिंसादिवतानि छित्वा विनाश्य श्रमणः साधुर्यो गृह्णाति च बाह्यं योगं वृक्षमूलादिकं तस्य साधोर्बाह्या योगाः सर्वे मूलविहीनस्य मूलगुणरहितस्य किं करिष्यंति यावता हि न किंचिदपि कुर्वन्ति नापि कर्मक्षयं करिष्यन्तीति ॥ २७ ॥
--
तावदहिंसादिव्रतं विनाश्य यः करोत्युत्तरगुणं तस्य दोषमाह;हंतूण य बहुपाणं अप्पाणं जो करेदि सप्पाणं । अप्पासुअसुहकंखी मोक्खंकखी ण सो समणो ॥ २८ ॥
हत्त्वा बहुप्राणं आत्मानं यः करोति सप्राणम् । अप्रासुकसुखकांक्षी मोक्षकांक्षी न स श्रमणः ॥ २८ ॥