SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११० मूलाचारे टीका-बहुप्राणान् हत्वा बहून् जीवान् त्रसस्थावरादीन् हत्त्वाऽधःकर्मादिभिरात्मानं यः करोति सप्राणं सावद्याहारं भुक्त्वाऽऽत्मनो बलोपचयं यः कुर्यात्सः साधुरप्रासुकसुखकांक्षी येन सुखेन नरकादीन भ्रमति तदीहतेऽसौ मोक्षकांक्षी नासौ श्रमणः-सर्वकर्मक्षयविमुक्तिं नेच्छतीति ॥ २८ ॥ दृष्टान्तेन दोषमाह;एक्को वावि तयो वा सीहो वग्यो मयो व खादिज्जो। जदि खादेज स णीचो जीवयरासिं णिहंतूण ॥ २९ ॥ एकं वापि त्रीन् वा सिंहो व्याघ्रो मृगं वा खादयेत् । यदि खादयेत् स नीचो जीवराशिं निहत्य ॥ २९ ॥ टीका-एक्को वावि-एकं वाऽपि मृगं शशकं वा, तयो वा-त्रीन वा, द्वौ चतुरो वा मृगान् सिंहो मृगारिर्व्याघ्रः शार्दूलो वासमुच्चयार्थः तेनान्योऽपि गृह्यते शरभादिः । स्वादिज-खादयेत् यदि भक्षयेत् स नीचोऽधमः पापिष्ठो जीवरााशें निहत्य । यदि एक द्वौ त्रीन् वा जीवान् सिंहो व्याघ्रो वा खादयेत् स नीच इत्युच्यते यः पुनरधःकर्मणो. जीवराशिं निहत्य खादयेत् स कथं न नीचः किन्तु नीच एवेति भावार्थः ॥ २९ ॥ येन प्राणिवधः कृतस्तेनात्मवधः कृत इति प्रतिपादयन्नाह;आरंभे पाणिवहो पाणिवहे होदि अप्पणो हु वहो । अप्पा ण हु हंतव्यो पाणिवहो तेण मोत्तव्वो ॥ ३० ॥ आरंभे प्राणिवधः प्राणिवधे भवति आत्मनो हि वधः । आत्मा न हि हंतव्यः प्राणिवधस्तेन मोक्तव्यः ॥ ३० ॥ १ 'यदि, शब्दो ग-पुस्तके नास्ति। २ खादेज-खादेयत् भक्षयेत् यदि खादयेत् इति-ख-पुस्तके। .
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy