________________
समयसाराधिकारः।
१११
MAAAAAAAAAAAAAAAAAAAAAAAA
टीका-आरंभे पचनादिकर्मणि सति प्राणिवधः स्यात्प्राणिवधश्च भवत्यात्मवधः स्फुटं नरकतिर्यग्गतिदुःखानुभवनं, आत्मा च न हंतव्यो यतोऽतः प्राणिवधस्तेन मोक्तव्यस्त्याज्य इति ॥ ३० ॥
पुनरप्यधःकर्मणि दोषमाहोत्तरेण ग्रंथप्रबंधेन;जो ठाणमोणवीरासणेहिं अत्थदि चउत्थछटेहिं । भुंजदि आधाकम्मं सव्वे वि णिरत्थया जोगा ॥ ३१ ॥
यः स्थानमौनवीरासनैः आस्ते चतुर्थषष्ठभिः । भुंक्ते अधःकर्म सर्वे अपि निरर्थका योगाः ॥ ३१॥ टीका-यः पुनः स्थानमौनवीरासनैश्चतुर्थषष्ठादिभिश्चास्ते अधःकर्मपरिणतं च भुंक्ते तस्य सर्वेऽपि निरर्थका योगा उत्तरगुणा इति ॥ ३१॥
तथा;-- किं काहदि वणवासो सुण्णागारो य रुक्खमूलो वा । भुंजदि आधाकम्मं सव्वे विणिरत्थया जोगा ॥ ३२ ॥ किं करिष्याति वनवासः शून्यागारश्च वृक्षमूलो वा। भुक्ते अधःकर्म सर्वेपि निरर्थका योगाः ॥३२॥ टीका-किं करिष्यति तस्य वनवासः किं वा शून्यागारवासो वृक्षमूलवासो वा भुक्ते चेदधःकर्म तत्र सर्वेऽपि निरर्थका योगा इति ॥ ३२ ॥ __ तथा;किं तस्स ठाणमोणं किं काहदि अब्भोवगासमादावो । मत्तिविहूणोसमणो सिज्झदिण हु सिद्धिकंखो वि॥३३॥
१ 'तत्र' शब्दो नास्ति ख-ग-पुस्तके।