SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। ३१९ ~~~ धश्चतुःस्थानिक जघन्यो विस्थानिकः शेषो द्वित्रिचतुः स्थानिकः । घातिनामकस्थानं नास्ति । पुंवेदरहितानां नोकषायाणामेकस्थानं नास्ति निंबवदेकस्थानं कांजीरवत् द्विस्थानं विषवत् त्रिस्थानं कालकूटवत् चतुः स्थानं अशुभप्रकृतीनामेतत् । गुडवदेवस्थानं खंडवत् द्विस्थानं शर्करावत् त्रिस्थानं अमृतवत् चतुः स्थानं शुभप्रकृतीनामेतदिति । पंचशरिषट्संस्थानव्यंगोपांगषट्संहननपंचवर्णद्विगंधपंचरसाष्टस्पर्शागुरुलघूपघातपरघातातपोयोतनिमानप्रत्येकसाधारणस्थिरास्थिरशुभाशुभा एता प्रकृतयः पुद्गलविपाकाः पुद्गलपरिणामिन्यो यत इति चत्वार्यायूंषि भवविपाकानि भवधारणत्वाच्चत्वार्यानुपूर्व्याणि क्षेत्रविपाकानि क्षेत्रमाश्रित्य फलदानात् । शेषास्तु प्रकृतयो जीवविपाका जीवपरिणामनिमित्तत्वात् इति ॥ २०३ ॥ अनुभागवंधं व्याख्याय प्रदेशबंध प्रतिपादयन्नाह;सुहुमे जोगविसेसेण एगखेत्तावगाढठिदियाणं । एक्केके दु पदेसे कम्मपदेसा अणंता दु ॥ २०४॥ सूक्ष्मा योगविशेषात् एकक्षेत्रावगाहस्थिताः । एकैकस्मिन् तु प्रदेशे कर्मप्रदेशा अनंतास्तु ॥ २०४ ॥ टीका-सुहुमे सूक्ष्माः न स्थूलाः ओगविसेसेण योगविशेषेण मनोवचनकायविशिष्टव्यापारात् एकखेत्तोवगाढ एकक्षेत्रावगाहिनो न क्षेत्रांतरावगाहिनः यस्मिन्नेवात्मा कर्मादानरतस्ततः परस्मिन् क्षेत्रे ये पुद्गलास्ते इति ठिदियाणं स्थिताः न गच्छंतः एक्कक्के दु पदेसे सर्वात्मप्रदेशेषु कम्मपदेसा कर्मप्रदेशाः ज्ञानावरणादिनिमित्तपरमाणवः अणंता दु अनंतास्तु । सूक्ष्मग्रहणं ग्रहणयोग्यपुद्गलस्वभावानुवर्णनार्थं वर्णग्रहणयोग्याः पुद्गलाः सूक्ष्माः न स्थूलाः, एकक्षेत्रावगाहवचनं क्षेत्रांतरनिवृत्त्यर्थं एकक्षेत्रे कर्मादानशक्तियुक्तजीवसहचरितप्रदेशे अवगाहो येषां एकक्षेत्रावगाहः, स्थिता इति क्रियांतरनिवृत्त्यर्थ स्थिता न गच्छंतः, एकैकप्रदेशे इत्यत्र वीप्सानिर्देशेन सर्वात्मप्रदेशसंग्रहः कृतस्तेनाधारनिर्देशः कृतस्तेनैकप्रदेशादिषु न कर्मप्रदेशाः प्रवर्त्तते
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy