________________
३२०
मूलाचारेव तर्हि ऊर्ध्वमधः स्थितास्तिर्यक्च सर्वेष्वात्मप्रदेशेषु व्याप्य स्थिता इति । कर्मग्रहणं सर्वकर्मप्रकृतिसंग्रहार्थ अनेनोपादानहेतुसंग्रहः कृतः, प्रदेशा इति पुद्गलग्रहणं तेनाकाशादिप्रदेशनिवृत्तिः । अनंतानंत इति परिमाणः अनंतरव्यपोहाथै,तुशब्दः अनुक्तसविशेषसंग्रहार्थ, न संख्येया नचासंख्येयाः नाप्यनंतास्ते पुद्गलस्कंधाः किं तु अभव्यानंतगुणाः सिद्धानंतभागप्रमिताः घनांगुलस्य संख्येयभागावगाहिनः एकद्वित्रिचतुः समयस्थितिकाः पंचवर्णरसद्विगंधचतुःस्पर्शभवाः सूक्ष्मा अष्टविधकर्मप्रकृतियोग्या एकक्षेत्रावगाहिनः स्थिताः सवात्मप्रदेशेषु योगवशादात्मना प्रदेशा: कर्मरूपेणात्मसास्क्रियते । अयं प्रदेशबंधः । अथवाऽऽत्मनो योगवशादष्टविधकर्महेतवोऽनंतानंतप्रदेशा एकैकप्रदेशे ये स्थितास्ते प्रदेशबंधा इति । अष्टविधकर्मयोग्यपुद्गलानां एकैकसमयेन वंधनमागतानां आयुभीग एकः नामगोत्रयोरन्योन्यसमोऽधिक एकतरो भाग आयुर्भागात् ज्ञानावरणदर्शनावरणांतरायाणां भागोऽन्योन्यसदृश एकतरः नामगोत्रयोरेकतरभागाधिकः मोहस्य भाग आवरणांतरायैकतरभागादधिकः मोहभागादिनीयभागोऽधिकः । सर्वत्र आवल्याः संख्यातभागेन भागे त्दृते यल्लब्धं तेनाधिक इति । एवं सप्तविधवंधकानां षधिवंधकानां च ज्ञातव्यं । ज्ञानावरणादीनामात्मप्रदेशभाग आत्मात्मेतरप्रकृतयो यावंत्यस्तावद्भागैरभिगच्छंति ॥ २०४॥ ___ एवं बंधपदार्थो व्याख्यातः संक्षेपतः, इत उर्ध्वमुपशमनबिधिं क्षपणविधिं च प्रपंचयन्नाह;मोहस्सावरणाणं खयेण अह अंतरायस्स य एव । उववज्जइ केवलयं पयासयं सव्वभावाणं ॥ २०५॥ मोहस्यावरणयोः क्षयेण अथ अंतरायस्य चैव । उत्पद्यते केवलं प्रकाशकं सर्वभावानां ॥ २०५॥ टीका--मोहस्यावरणयोरंतरायस्य च क्षयेण विनाशेनैवोत्पद्यते केवलं केवलज्ञानं प्रकाशकं सर्वभावानां सर्वद्रव्यपर्यायपरिच्छेदकं अथशब्देन सूत्रेणैवमुपशमनविधिं तावत्प्रतिपादयामि-अनंतानुबंधिक्रोधमानमायालोभसम्यक्त्व