SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः । ७७ romo.nn निताजनाधिष्ठितं, स देशो रम्यः सुलभानपानो मनोहरवेषः प्रचुरगन्धमाल्यादिकः सर्वभाषाविदग्धमतिरित्येवमादिवचनप्रबंधो जनपदनगराकरकथाः, तास कथासु न रज्यंति धीरा इत्युत्तरेण संबंधः ॥ ८९ ॥ तथा;णडभडमल्लकहाओ मायाकरजल्लमुट्ठियाणं च । अज्जउललंधियाणं कहासु ण वि रज्जए धीरा ॥ ९० ॥ नटभटमल्लकथाः मायाकरजलमुष्टिकयोश्च । आर्याकुललंघिकानां कथासु नापि रज्यंते धीराः॥ ९० ॥ टीका–नटा भरतपुत्रका रंगोपजीविनः, भटा युद्धसमर्थाः सहस्रादीनां जेतारः, मल्ला अंगयुद्धसमर्था अनेककच्छपबंधादिकरणसमर्थाः, मायां महेन्द्रजालादिकं प्रतारणं कुर्वन्तीति मायाकरा मायाकृतरंगोपजीविनः, जल्ला मत्स्यबधाः शाकुनिकाश्च षट्टिकाम्लेच्छादयश्च, मुष्टिका द्यूतकारा द्यूतव्यसनिनः, अज्जउला-आर्या कुलमाम्नायो दुर्गा येषां ते आर्यकुला हस्तपादशिरःशरीराववयवभेदेन कुशला दुर्गपुत्रिका जीवहिंसनरता अथवा अजाविकारक्षकाः सर्वपशुपालाश्च लंघिको वरत्रवेणूपरिनृत्तकुशला इत्येवमादीनां याः कथास्तद्व्यापारकरणं सरागचेतसा स शोभनतरोऽशोभनतरो वा कुशलोऽकुशलो वेत्येवमादयस्तासु कथासु पूर्वोक्तासु नैव रज्यंति नैवानुरागं कुर्वन्ति धीरा वैराग्यपरा इति ॥ ९० ॥ 'न केवलं कथा वचनेन वर्जयंति किं तु मनसाऽपि न कुर्वन्तीत्याह;विकहा विसोत्तियाणं खणमवि हिदएण ते ण चिंतंति । धम्मे लद्धमदीया विकहा तिविहेण वज्जति ॥ ९१ ॥ १ लंपाका प्रेसपुस्तके।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy