________________
७६
मूलाचारे
स्त्रीकथा अर्थकथा भक्तकथा खेटकर्वटयोश्च । राजकथा चोरकथा जनपदनगराकरकथाः॥ ८९ ॥ टीका-स्त्रीणां कथाः सुरूपास्ताः सौभाग्ययुक्ता मनोरमा उपचारप्रवणा कोमलालापा इत्येवमादिकथनं वनिताकथाः । अर्थस्य कथा अर्थार्जनोपायकथनप्रबंधाः सेवया वाणिज्येन लेखवृत्त्या कृषिकर्मणा समुद्रप्रवेशेन धातुवादेन मंत्रतंत्रप्रयोगेण वा इत्येवमाद्यर्थार्जननिमित्तवचनान्यर्थकथाः । भक्तस्य कथा रसनेन्द्रियलुब्धस्य चतुर्विधाहारप्रतिबद्धवचनानि तत्र शोभनं भक्ष्यं खाद्यं लेा पेयं सुरसं मिष्टमतीवरसोत्कटं जानाति सा संस्कर्तुं बहूनि व्यंजनानि तस्या हस्तगतमशोभनमपि शोभनं भवेत्तस्य च गृहे सर्वमनिष्टं दुर्गन्धं सर्व स्वादुरहितं विरसमित्येवमादिकथनं भक्तकथाः । खेटे नद्यद्रिवेष्टितं नंदीपर्वतैरवरुद्धः प्रदेशः, कर्वटं सर्वत्र पर्वतेन वेष्टितो देशः कथात्र सम्बध्यते कर्वटकथाः खेटकथास्तथा संवाहनद्रोणमुखादिकथाश्च, तानि शोभनानि निविष्टानि सुदुर्गाणि वीरपुरुषाधिष्ठितानि सुयंत्रितानि परचक्राभेयानि बहुधनधान्यार्थनिचितानि सर्वथायोध्यानि न तत्र प्रवेष्टुं शक्नोतीत्येवमादिवाक्प्रलापाः खेटादिकथाः । राज्ञां कथा: नानाप्रजापतिप्रतिबद्धवचनानि स राजा प्रचंडः शूरश्चाणक्यनिपुणश्चारकुशलो -योगक्षेमोद्यतमतिश्चतुरंगबलो निजिताशेषवैरिनिवहो न तस्य पुरतः केनापि स्थीयते इत्येवमादिकं वचनं राजकथाः । चौराणां कथाः-स चौरो निपुणः खातकुशलः स च वर्त्मनि ग्रहणसमर्थः पश्यतां गृहीत्वा गच्छति तेन सर्व आक्रांता इत्येवमादिकथनं चौरकथाः। जनपदो देशः,नगरं प्राकाराग्रुपलक्षितं,आकरो वज्रपद्मरागसुवर्णकुंकुममुक्ताफललवणचन्दनादीनामुत्पत्तिस्थानं तेषां कथास्तत्प्रतिबद्धकथार्जनानयनयानादिवाक्प्रबंधास्तत्र रत्नं सुलभं शोभनमनर्घ मुक्ताफलं तत्र जात्यमुत्पद्यते तत्र कुंकुमादिकं समहर्घमत्रानीतं बहुमूल्यं फलदं तन्नगरं सुरक्षितं प्रासादादिविराजमानं दिव्यव
१ उपचारकुशला ख-ग-पुस्तके। २ नद्या पर्वतेनावरुद्धः ख-ग-पुस्तके ।