________________
अनगारभावनाधिकारः।
७५
उज्झनशुद्धिं व्याख्याय वाक्यशुद्धिं निरूपयन्नाह;भासं विणयविहणं धम्मविरोही विवज्जए वयणं । पुच्छिदमपुच्छिदं वा ण वि ते भासंति सप्पुरिसा ॥८॥
भाषां विनयविहीनां धर्मविरोधि विवर्जयंति वचनं । पृष्टमपृष्टं वा नापि ते भाषते सत्पुरुषाः॥ ८७ ॥ टीका-भाषां वचनप्रवृत्तिमार्या कर्णाटिकां गौडी लाटी विनयविहीनां खरपरुषादिसमन्वितां वर्जयन्ति, वचनं धर्मविरोधि रम्यमपि वचनं धर्मप्रतिकूलं वर्जयन्ति,अन्यदपि यद्विरुद्धं पृष्टाः संतोऽपृष्टाश्च परेण नियुक्ता अनियुक्ताश्च न ते सत्पुरुषा भाषते ब्रुवत इति ॥ ८७ ॥
कथं तर्हि तिष्ठन्तीत्याशंकायामाह;-- अच्छीहिंय पेच्छंता कण्णेहिंय बहुविहाइं सुणमाणा। अत्थंति मूयभूया ण ते करंति हुं लोइयकहाओ ॥८॥
अक्षिभिः पश्यतः कर्णैः बहुविधानि शृण्वंतः। तिष्ठति मूकभूता न ते कुर्वति हि लौकिककथाः ॥ ८८ ॥
टीका-अक्षिभिनयनैः पश्यन्तो निरूपयन्तः सद्रूपमसद्रूपं वा योग्यम-- योग्यं च वस्तुजातं निरूपयन्तोऽपि दृष्टिरहिता इव तिष्ठति, कर्णैः श्रोत्रन्द्रियैबहुविधानि श्रव्याणि युक्तान्ययुक्तानि च शृण्वन्तो नानाप्रकारशब्दान् कर्णशष्कुल्या गृह्णन्तोऽपि तिष्ठति मूकभूता इव जिह्वानयनकर्णरहिता इव, न ते मुनयो व्यक्तं कुर्वन्ति लौकिकीः कथा लोकव्यापारानिति ॥ ८८॥
कास्ता लौकिक्यः कथा इत्याशंकायामाह;इत्थिकहा अत्थकहा भत्तकहा खेडकव्वडाणं च । रायकहा चोरकहा जणवदणयरायरकहाओ॥ ८९ ।।