________________
७४
मूलाचार
उज्झनशुद्धिमुपसंहरन्नाह;जं वंतं गिहवासे विसयसुहं इंदियत्थपरिभोए । तं खु ण कदाइभूदो मुंजंति पुणो वि सप्पुरिसा ।। ८५ ॥ यत् वांतं गृहवासे विषयसुखं इंद्रियार्थपरिभोगात्। तत् खलु न कदाचिद्भूतं भुंजते पुनरपि सत्पुरुषाः ॥ ८५ ॥
टीका यत्किंचिद्धांतं त्यक्तं गृहवासे विषयसुखं गार्हस्थ्यं रूपरसगन्धस्पर्शद्वारोद्भूतं जीवसंतर्पणकारणमिन्द्रियामिन्द्रियकारणेन जनितं परिभोगाश्च ये च ख्यादिका वान्ताः परिभोगनिमित्तं वा तत्सुखं तानिन्द्रियार्थान् ताँश्च परिभोगान् खलु स्फुटं कदाचिदपि भूदो-भूतं समुपस्थितं केनचित्कारणान्तरेण न भुंजते न परिभोगयन्ति सत्पुरुषाः साधवः, यद्वान्तं विषयसुखं तदेव केनचित्कारणान्तरेण समुपस्थितं यदिभवेत्तदापि सत्पुरुषा नभुंजते न सेवन्त इति॥८५॥
तथा;पुव्वरदिकेलिदाइं जा इड्री भोगभोयणविहिं च । ण विते कहंति कस्स वि ण वि ते मणसा विचिंतंति॥८६॥ पूर्वरतिक्रीडितानि यानि ऋद्धिं भागभोजनविधि च । नापि ते कथयंति कस्यापि नापि ते मनसा विचिंतयांत॥८६॥ टीका-पूर्वरत्या क्रीडितानि पूर्वकाले यान्युपभोगितानि स्त्रीवस्त्राभरणराज्यहस्त्यश्वरथादिकानि यानि ऋद्धिर्विभूतिद्र्व्यसुवर्णरूप्यादिसंपत्तिः सौभाग्यादिकं च भोगाः पुष्पचन्दनकुंकुमादिकानि भोजनविधिश्च घृतपूराशोकवर्तिशाल्योदनानि चतुर्विधाहारप्रकारस्तदेतत्सर्वं न ते मुनयः कस्यचिदपि कथयंति नापि मनसा विचिन्तयन्ति, तत्सर्वमुपभुक्तं न वचनेनान्यस्य प्रतिपादयन्ति नाऽपि चित्ते कुर्वन्तीति ॥ ८६ ॥