________________
पर्याप्प्यधिकारः।
२७७ mmmmmmmmmmmmmmmmmmmmmm
wormmmrammmmmmmmmmmmmmmm
शेन कषंतीति कषायाः क्रोधमांनमायालाभभेदेन चतुःप्रकासः । भूतार्थप्रकाशकं ज्ञानं आत्मार्थोपलंभकं वा तत्पंचविधं मतिश्रुतावधिमनःपर्ययकेवलभेदेनायथार्थोपलंभकमजानं तत् त्रिविधं मत्यज्ञानं श्रुताज्ञानं विभंगज्ञानभेदेन । व्रतसमितिकषायदंडेंद्रियाणां रक्षणपालनानग्रहत्यागजन्यः संयमः सः सप्तविधः सामायिकछेदोपस्थापनपरिहारशुद्धिसूक्ष्मसांपराययथाख्यातभेदेन असंयमासंयमासयमश्च । प्रकाशवृत्तिर्दर्शनं तच्चक्षुरचक्षुरवधिकेवलदर्शनभेदेन चतुर्विधं । आत्मप्रवृत्तिसंश्लेषकरी लेश्या कषायानुरंजिता योगप्रवृत्तिर्वा सा च षड्विधा कृष्णनीलकापोततेजःपद्मशुक्ललेश्या भेदेन । निर्वाणपुरस्कृतो भव्यः सम्यक्दर्शनादिग्रहणयोग्यस्तद्विपरीतोऽभव्यो ऽनाद्यनिधनकर्मवंधः । तत्वरुचिः सम्यक्त्वं प्रशमसंवेगानुकंपास्तिक्याभिव्यक्ति लक्षणं वा तत्क्षायिकक्षायोपशमिकौपशमिकभेदेन त्रिविधं मिथ्यात्वसासादुनसम्यमिथ्यात्वभेदेन च तद्विपतिं त्रिविधं । शिक्षाक्रियोपदेशालापग्राहिकः संज्ञी तद्विपरीतोऽसंज्ञी । शरीरप्रायोग्यपुद्गलपिंडग्रहणमाहारः स विद्यते यस्य स आहारी तद्विपरीतोऽनाहारी। अत्र सर्वोपि विभक्तिनिर्देशः प्रथमाविभक्त्यर्थे द्रष्टव्योऽथवा प्राकृतवलादेकारादयश्चशब्द सर्वविशेषसंग्रहार्थः समुच्चयार्थो वा ॥ १५६ ॥
एवं चतुर्दश मार्गणास्थानानि प्रतिपाद्य तत्रजीवगुणस्थानानि निरूप्पयन्नाहजीवाणं खलु ठाणाणि जाणि गुणसण्णिदाणि ठाणाणि। एवं मग्गणठाणेसुचेव परिमग्गदव्वाणि ॥१५७॥ . जीवानां खलु स्थानानि यानि गुणसंज्ञितानि स्थानानि ।
एते मार्गणास्थानेषु चैव परिमार्गयितव्यानि ॥ १५७ ॥ - टीका-जीवानां यानि स्थानानि मुणसंज्ञकानि च यानि स्थानानि तान्येतानि मार्गणास्थानेषु नान्येषु स्फुटं मार्गे कथयितव्यानि यथासंभवं द्रष्टव्यानीत्यर्थः ॥ १५७ ॥