________________
२७६ wwwwwwwwwwwwwwwwwwwwwwwww
"मूलाचारे
चतुर्दश गुणस्थानानि प्रतिपाद्य मार्गणास्थानानि निरूपयन्नाह;गइ इंदिये च काये जोगे वेदे कसाय णाणे य । संजमदंसण लेस्सा भविया सम्मत्त सण्णि आहारे॥१५६॥
गतिरिद्रियाणि च कायो योगो वेदः कषायो ज्ञानं च । संयमो दर्शनं लेश्या भव्यः सम्यक्त्वं संज्ञी आहारः ॥ १५६ ॥
टीका-गम्यत इति गतिः गतिकर्मोदयापादितचेष्टा भवाद्भवांतरसक्रांतिर्वा गतिः सा चतुर्विधा नरकगतितिर्यग्गतिमनुष्यगतिदेवगातिभेदेन, स्वार्थनिरंतानींद्रियाणि अथवा इन्द्र आत्मा तस्य लिंगमिंद्रियं इंद्रेण दृष्टमिति चेंद्रिय, तद्विविधं द्रव्योंद्रियं भावेन्द्रियं चेति, निर्वृत्युपकरणं द्रव्योन्द्रयं, लब्ध्युपयोगौ भावेंद्रियं, कर्मणा या निर्वय॑ते सा निवृत्तिः, सापि द्विविधा बाह्याभ्यंतरभेदेन, तत्र लोकप्रमितविशुद्धात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियस्थानेनावस्थितानामुत्सेधांगुलस्यासंख्येयभागप्रमितानां वृत्तिरभ्यंतरा निर्वृत्तिरात्मप्रदेशेष्विन्द्रियव्यपेदशभाक्यः प्रतिनियतचक्षुरादिसंस्थानो नाम कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा वाह्या निवृत्तिः, उपक्रियतेऽनेनेत्युपकरणं येन निवृत्तरुपकारः क्रियते तदुपकरणं, तदपि द्विविधं, वाह्याभ्यंतरभेदात्, अभ्यंतरं कृष्णशुक्लमंडलादिकं, वाह्यं आक्षिपक्ष्मपत्रद्वयादिः; इंद्रियनिवृत्तिहेतुः क्षयोपशमविशेषो लब्धिर्यत्सनिधानादात्मा द्रव्येंद्रियं प्रति व्याप्रियते, तन्निमित्तं प्रतीत्योत्पद्यमान आत्मनः परिणाम उपयोगः कार्ये कारणोपचारात्; तदिद्रियं पंचविध स्पर्शनादिभेदेन तानि विद्यते येषां ते एकद्रयादयः । आत्मवृत्त्युपचितपुद्गलपिंडः कायः पृथिवीकायादिनामकर्मजनितं परिणामो वा सः पृथिवीकायादिभेदेन षड्डिधः । आत्मप्रवृत्तिसंकोचविकोचो योगः मनोवाक्कायावष्टंभबलेन जीवप्रदेशपरिस्पंदो. वा योगः सः पंचदशभेदो मनवचनकायश्चतुश्चतुः सप्तभेदेन । आत्मप्रवृत्तिमैथुनसंमोहोत्पादो वेदः स्त्रीपुंनपुंसकभेदेन त्रिविधः । क्रोधादिपरिणामव