________________
द्वादशानुप्रेक्षाधिकारः ।
marmarrrrrrrrrrrrrrrrrrrr "प्रकारा भवेयुस्तथा ते सर्वलोकनाथा विमलगतिं गताः प्रसीदंतु प्रसन्ना भवंतु द्वादशानुप्रेक्षाभावनां मम दिशंत्विति ॥७६ ॥
इति श्रीमद्दट्टकेराचार्यवर्यविनिर्मितमूलाचारे वसुनंद्याचार्यप्रणीतटीकासहिते द्वादशानुप्रेक्षकनामा:
ष्टमः परिच्छेदः समाप्तः । *
१ प्रथम-द्वितीयफार्ममुद्रणानन्तरमेकं मूलपुस्तकं सम्प्राप्त, अतोऽत्र फार्मद्वये या अशुद्धयः संजातास्ता अत्र विलिख्यते । अध्यायप्रारंभेऽधोलिखितः श्लोकः "पाठश्च विद्यते
अनन्तपदलाभाय यत्पदद्वन्द्वचिन्तनम् । जगदर्हः स वः पायाद्देवस्त्यागदिगम्बरः ॥१॥ द्वादशानुप्रेक्षाधिकारमष्टमं प्रपंचयन् तावदादौ नमस्कारपूर्वकं प्रतिज्ञावाक्यमाह
प्रथमपृष्ठे यः पाठोऽस्माभिः स्वबुद्धया संयोजितः स एव मूलपुस्तके वर्तते न तु टिप्पणस्थः ।
द्वितीयपृष्ठे ' चाशनादीनां ग्रहणात् ' अस्य स्थाने. 'वेत्रासनादीनां ग्रहणात् ' इति पाठः। एकादश त्रयोदशपृष्ठेऽपि अस्माभिः संयोजितपाठ एव न तु टिप्पणस्थः। अष्टादशपृष्ठे तु 'जहासि' स्थाने ' त्यजसि ' इति पाठः। चतुर्विंशतितमे पृष्ठे अस्माभिः स्वबुद्धया यः पाठः कल्पितः स एव मूलपुस्तके न तु टिप्पणगतः ।
पंचविशतितमे पृष्ठे तु ' सर्वतश्च ' स्थाने ' सर्वतश्चैव' पाठः अन्यश्चास्माभिः योजितः न तु टिप्पणविहितः * ग्रन्थावसानेऽस्य स्थानेऽयं पाठःइत्याचारवृत्तौ वसुनन्दिकृतावतारायामष्टमः प्रस्तावः समाप्तः ।
-संशोधकः।