________________
मूलाचारे
अनगारभावनाधिकारः।
- - अनगारभावनाख्यं नवममधिकार व्याख्यातुकामस्तावदादौ शुभपरिणामनिमित्तं मंगलमाह;वंदित्तु जिणवराणं तिहुयणजयमंगलोववेदाणं । कंचणपियंगुविदुमघणकुंदमुणालवण्णाणं ॥१॥
वंदित्वा जिनवरान त्रिभुवनजयमंगलोपेतान् । कांचनप्रियंगुविद्रुमधनकुंदमृणालवर्णान् ॥ १॥
टीका-जिनवरान् वंदित्वा, किंविशिष्टान् ? त्रिभुवने या जयश्रीर्यच्च मंगलं सर्वकर्मदहनसमर्थं पुण्यं ताभ्यामुपेतास्तत्र स्थितास्ताँस्त्रिभुवनजयमंगलोपेताना प्रकृष्टश्रिया युक्तान् सर्वकल्याणभाजनाँश्च । पुनरपि किंविशिष्टान् ? कांचनं सर्वाधिकं सुवर्ण, प्रियंगुः शिरीषपुष्परूपद्रव्यकान्तिः, विद्रुमः प्रवालद्रव्यं सुरमणीयरक्तभावद्रव्यं, घनः सुष्टु रम्यनवजलधरः, कुन्दो रमणीयपुष्पविशेषः, मृणालं सुरम्यपद्मकोमलनालं, एतेषां वर्णवद्वर्ण येषां ते कांचनप्रियंगुप्रवालधनकुन्दमृणालवर्णास्तान् कांचनप्रियंगुप्रवालघनकुन्दमृणालवर्णान् । अर्हतामुपादानाय वर्णविशेषणमुपात्तं, नामस्थापनाद्रव्यजिनपरिहाराय भावजिनोपादानाय चावशेषविशेषणं । उत्तरसूत्रे वक्ष्यामीति क्रिया तिष्ठति तया सह संबंधः । क्रियासापेक्षं नमस्कारकरणं नित्यक्षणिकयोगचार्वाकमीमांसकैकान्तनिराकरणार्थं चेति ॥१॥
अनगारभावनासूत्रार्थ प्रतिज्ञामाह;अणयारमहरिसीणं णाइंदणरिंदइंदमहिदाणं । वोच्छामि विविहसारं भावणसुत्तं गुणमहंतं ॥२॥