SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ L अनगार भावनाधिकारः । अनगार महर्षीणां नागेंद्रनरेंद्रमहितानां । वक्ष्यामि विविधसारं भावनासूत्रं गुणमहत् ॥ २ ॥ ३७ टीका-न विद्यतेऽगारं गृहं ख्यादिकं येषां तेऽनगारास्तेषामनगाराणां महान्तश्च ते ऋषयश्च महर्षयः सम्यगृद्धिप्राप्तास्तेषां महर्षीणां, नागेन्द्रनरेन्द्रेन्द्रमहितानां श्रीपार्श्वनाथ संजयंताद्युपसर्गनिवारणेन प्राधान्यान्नागेन्द्रस्य पूर्वनिपातोऽथवा बहूनां नियमो नास्ति, मोक्षार्हत्वात्तदन्तरं नरेन्द्रस्य ग्रहणं, पश्चादूव्यन्तरादीनां ग्रहणामेतैर्ये पूजितास्तेषामनगाराणां भावनानिमित्तं विविधसारं सर्वशास्त्रसारभूतं सूत्रं गुणैर्महद्वक्ष्यामि, अर्हतः प्रणम्यानगारसूत्रं वक्ष्यामीति संबन्धः ॥ २ ॥ स्वकृतप्रतिज्ञानिर्वहणाय दश संग्रहसूत्राण्याह; - लिंगं वदं च सुद्धी वसदिविहारं च भिक्ख णाणं च । उज्झणसुद्धी य पुणो वक्कं च तवं तथा झाणं ॥ ३ ॥ लिंगस्य व्रतस्य च शुद्धिः वसतिविहारश्च भिक्षा ज्ञानं च । उज्झनशुद्धिः च पुनः वाक्यं च तपः तथा ध्यानं ॥ ३ ॥ * * टीका -- * लिंग निर्मन्थरूपता शरीरस्य सर्वसंस्काराभावोऽचेलकत्वलोचप्रतिलेखनग्रहणदर्शनज्ञानचरित्रतपोभावश्च व्रतान्यहिंसादीनि । शुद्धिशब्दः प्रत्येकमभिसंबध्यते, लिंगस्य शुद्धिर्लिंगशुद्धिर्लिंगानुरूपाचरणं । व्रतानां शुद्धिशुद्धिर्निरीचारता । अत्र प्राकृतलक्षणेन षष्ठ्यर्थे प्रथमानिर्देशः कृतः । वसतिः स्त्रीपशुपांडकाभावापलक्षितप्रदेशः परमवैराग्यकारणस्थानं । विहारो नियतवासो दर्शनादिनिर्मलीकरणनिमित्तं सर्वदेशविहरणं । भिक्षा चतुर्विधाहारः । ज्ञानं यथावस्थितवस्त्ववगमो मत्यादिकं । उज्झनं परित्यागः शरीराद्यममत्वं । शुद्धिशब्दः प्रत्येकमभिसंबध्यते । वसतिशुद्धिर्विहारशुद्धिर्भिक्षाशुद्धिर्ज्ञानशुद्धि-.-. पुष्पमध्यगतः पाठः प्रेस - पुस्तके नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy