________________
३८
मूलाचारे
रुज्झनशुद्धिः। अत्रापि प्राकृतलक्षणे षष्ठ्यर्थे प्रथमा । पुनरपि च वाक्यं स्त्रीकथा-- दिविरहितवचनं । तपः पूर्वसंचितकर्ममलशोधनसमर्थानुष्ठानं । तथा ध्यानं शोभनविधानेनैकाग्रचिन्तानिरोधनं । अत्रापि शुद्धिर्द्रष्टव्या चशद्वात्सर्वेऽपि स्वगतसर्वभे-- दसंग्रहणार्था द्रष्टव्या इति ॥ ३॥
एतेषां सूत्राणां पाठे प्रयोजनमाह;- . एदमणयारसुत्तं दसविधपद विणयअत्थसंजुत्तं । जो पढह भत्तिजुत्तो तस्स पणस्संति पावाइं ॥ ४ ॥ एतानि अनगारसूत्राणि दशविधपदानि विनयार्थसंयुक्तानि । यः पठति भक्तियुक्तः तस्य प्रणश्यति पापानि ॥ ४ ॥ टीका-एतान्यनगारसूत्राणि दशविधपदानि दशप्रकाराधिकारनिबद्धानि नवैकादशसंख्यानि न भवंति , विनयार्थसंयुक्तानि विनयप्रतिपादकानि सूक्ष्मार्थसंयुक्तानि च यः पठति भक्तियुक्तस्तस्य प्रणश्यन्ति पापानि दुरितानीति ॥४॥
पुनरपि सूत्राणां स्तवनमाह;णिस्सेसदेसिदमिणं सुत्तं धीरजणबहुमदमुदारं । अणगारभावणमिणं सुसमणपरिकित्तणं सुणह ॥५॥ निश्शेषदर्शकानीमानि सूत्राणि धीरजनबहुमतान्युदाराणि । अनगारभावनानीमानि सुश्रमणपरिकीर्तनानि शृणुत ॥५॥ टीका-निःशेषदर्शकानीमानि सूत्राणि सर्वशोभनाचारसिद्धांतार्थप्रति-- पादकान्येतानि सूत्रपदानि, * धीरजनानां तीर्थकरगणधरदेवानां बहुमतानि सुष्टु मतानि बाहुल्येन वाभिमतानि, उदाराणि स्वर्गापवर्गफलदायकानि, अनगार-- भावनानीमानि शोभनश्रमणानां परिकीर्तनानि सुसंयतजनकीर्तनख्यापकानि शृणुत हे साधुजनाः ! बुध्यध्वमिति * ॥ ५॥
१' न चैकादशसंख्यानि सन्ति ' इति प्रेस-पुस्तके पाठः । * पुष्पमध्यगत:: पाठः प्रेस-पुस्तके नास्ति ।