SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः। ~~~mmmmmmmmmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwww न केवलमेतानि वक्ष्ये महर्षीणां गुणांश्च वक्ष्यामीत्याह;णिग्गंथमहरिसीणं अणयारचरित्तजुत्तिगुत्ताणं । णिच्छि दमहातवाणं वोच्छामि गुणे गुणधराणं ॥६॥ निर्ग्रथमहर्षीणां अनगारचरित्रयुक्तिगुप्तानाम् । निश्चितमहातपसां वक्ष्यामि गुणान् गुणधराणाम् ॥ ६॥ टीका-निग्रन्थमहर्षीणां सर्वग्रन्थविमुक्तयतीनां, अनगारचरित्रयुक्तिगुप्तानां अनगाराणां योऽयं चारित्रयोगस्तेन गुप्तानां संवृतानां, निश्चिन्तमहातपसां द्वादशविधतपस्युद्युक्तानां गुणधराणां गुणान् वक्ष्यामीति ॥ ६॥ तावल्लिंगशुद्धिं विवेचयन्नाह;- . चलचवलजीविदमिणं णाऊण माणुसत्तणमसारं। .. णिविण्णकामभोगा धम्मम्मि उवद्विदमदीया ॥७॥ चलचपलजीवितमिदं ज्ञात्वा मनुष्यत्वमसारं । निर्विण्णकामभोगा धर्मे उपस्थितमतयः ॥ ७ ॥ टीका-चलमस्थिरं प्रतिसमयं विनश्वरं, चपलं सोपघातं विद्युत्स्फुरणमिवाविदितस्वरूपं, जीवितं प्राणधारणं चलचपलजीवितं आवीचीतद्भक स्वरूपेणायुःक्षयरूपमिदं ज्ञात्वा, मनुष्यत्वं मनुष्यजन्मस्वरूपं, असारं परमार्थरैहितं, निविणकामभोगाः स्वेष्टवस्तुसमीहा काम उपभोगः स्व्यादिकः भोगः सकृत्सेवितस्य पुनरसेवनं तांबूलकुंकुमादि तद्विषयो निर्वेदोऽनभिलाषो येषां ते निर्विणकामभोगाः, धर्मे चारित्रे नैन्थ्यादिरूप उपस्थितम १ 'विद्युत्स्फुरणवदेवविदितस्वरूपं प्रतिपादनमेतदिति ' इति प्रेस-पुस्तके पाठः । २ आवीचीशब्दः प्रेस-पुस्तके नास्ति । ३ 'नासारं परमार्थरूपं ज्ञात्वा' इति प्रेसपुस्तके। ४ 'पुनरपि सेवनं' इति प्रेस-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy