________________
पर्याप्त्यधिकारः। mmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwm ___ गोत्रप्रकृतिभेदमंतरायप्रकृतिभेदं चाह;उच्चाणिचागोदं दाणं लाभंतराय भोगो य। परिभोगो विरियं चेव अंतरायं च पंचविहं ॥ १९७ ॥ उच्चैनीचैर्गोत्रं दानं लाभांतरायो भोगश्च ।। परिभोगो वीर्य चैव अंतरायश्च पंचविधः ॥ १९७ ॥ टीका-गोत्रशब्दः प्रत्येकमभिसंवध्यते; उच्चैर्गोत्रं, नीचैगोत्रं । यदुदयाल्लोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रं, यदुदयाद्दर्हितेषु कुलेषु जन्म तन्नीचैर्गोत्रं ॥ अंतरायशब्दः प्रत्येकमभिसंबध्यते अनुग्रहार्थं स्वस्यातिसर्गोदानं तस्यांतरायः दातृदेयादीनामंतरायो दानांतरायः, । लाभः समीप्सितवस्तु तस्यांतरायो लाभांतरायः, सकृद्धज्यते भोगस्तस्यांतरायो भोगांतरायः, पुनर्भुज्यते परिभोगस्तस्यांतरायः परिभोगांतरायः, वीर्यः शक्तिरुत्साहस्तस्यांतरायोवी-तरायः । दानादिपरिणामव्याघातहेतुत्वात् तव्यपदेशः । यदुदयादातुकामोऽपि न ददाति, लब्धुकामोऽपि न लभते, भोक्तुमिच्छन्नपि न भुक्ते, उपभोक्तुमभिवांछन्नपि न परिभुंक्ते, उत्सहितुकामोऽपि नोत्सहते। इत्येवमंतरायः पंचविधो भवति उत्तरप्रकृतिभेदेन ॥१९७॥
एवमुत्तरप्रकृतिभेदोष्टचत्वारिंशच्छतं भवति ॥ प्रकृतिस्वामित्वं प्रतिपादयन्नाह;सयअडयालपईणं बंधं गच्छति वीसअहियसयं। सव्वे मिच्छादिठी बंधदि नाहारतित्थयरा ॥ १९८ ॥
शताष्टचत्वारिंशत्प्रकृतीनां बंधं गच्छति विंशत्यधिकशतं । सर्वा मिथ्यादृष्टिः बध्नाति नाहारतीर्थकराः ॥ १९८॥ टीका-अष्टचत्वारिंशच्छतप्रकृतीनां मध्ये शतं विंशत्युत्तरं बंधप्रकृतयो भवंति, अष्टाविंशतिरबंधप्रकृतयः । पंच शरीरबंधनानि पंच शरीरसं