________________
३१०
मूलाचारे
मुहूर्त्तादुपजायते । मनोवर्गणाभिर्निष्पन्नद्रव्यमनोवष्टंभभेदानुभूतार्थस्मरणशक्तरुत्पत्तिर्मनःपर्याप्तिः । प्रारंभोऽक्रमेण जन्मसमयादारभ्य तासां सत्वाभ्युपगमान्निष्पत्तिस्तु पुनः क्रमणैतासामनिष्पत्तिरपर्याप्तिः । न च पर्याप्तिप्राणयोरभेदो यत आहारादिशक्तीनां निष्पत्तिः पर्याप्तिः प्राणत्येभिरात्मेति प्राणः । षड्विधपर्याप्तिहेतुर्यत्कर्मतत्पयाप्तिनाम ॥ शरीरनामकर्मोदयान्निर्वर्त्यमानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशररिनाम । बहूनामात्मनामुपभोगहेतुत्वेन साधारणशरीरं यतो भवति तत्साधारणशरीरनाम ।यस्य कर्मण उदयात् रसरुधिरमेदमज्जास्थिमांसशुक्राणां सप्तधातूनां स्थिरत्वं भवति तस्थिरनाम । यदुदयादेतेषामस्थिरत्वमुत्तरोत्तरपरिणामो भवति तदस्थिरनाम । यदुदयादंगोपांगनामकर्मजनितानामंगानामुपांगानां च रमणीयत्वं तच्छुभनाम, तद्विपरीतमशुभनाम । यदुदयात्स्त्रीपुंसयोरन्योन्यप्रीतिप्रभवं सौभाग्यं भवति तत्सुभगनाम । यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तदुर्भगनाम । चशब्दो नामशब्दस्य समुच्चयार्थः । यस्य कर्मणः उदयेनादेयत्वं प्रभोपेतशरीरं भवति तदादेयनाम । यदुदयादनादेयत्वं निष्प्रभशरीरं तदनादेयनाम, अथवा यदुदयादादेयवाच्यं तदादेयं विपरीतमनादेयमिति । शोभनः स्वरः मधुरस्वरः यस्योदयात्सुस्वरत्वं मनोज्ञस्वरनिर्वर्त्तनं भवति तत्सुस्वरनाम । यदुदयात् दुःस्वरताऽमनोज्ञस्वरनिर्वर्त्तनं तत् दुःस्वरनाम । पुण्यगुणाख्यापनकरणं यशःकीर्तिनाम, अथवा यस्य कर्मण उदयात्सद्भूतानां च ख्यापनं भवति तयश कीर्तनं नाम । तत्प्रत्यनीकमपरमयशस्कीर्तिनाम यदुदयात्सद्भूतानामसद्भूतानां चाप्यगुणानां ख्यापनं तदयशस्कीर्तिनाम । नियतं मानं निमानं तत् द्विविधं प्रमाणनिमानं स्थाननिमानं चेति यस्य कर्मण उदयेन द्वे अपि निमाने भवतस्तन्निमाननाम, अन्यथा कर्णनयननासिकादीनां स्वजातिप्रतिरूपणमात्मनः स्थानेन प्रमाणेन च नियमो न स्यात् । यस्य कर्मण उदयेन परममाहत्यं त्रैलोकपूजाहेतर्भवति तत्परमोत्कृष्टं तीर्थकरनाम । एवं पिंडप्रकृतीनां द्वाचत्वारिंशन्नाम्न एकैकापेक्षया त्रिनवतिर्वा भेदा भवंतीति ॥ १९५-१९६ ॥