SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। wwwwwwwwwww उत्पद्यते तदुद्यातनाम, न चास्याभावः चन्द्रनक्षत्रादिमंडलेषु खद्योतादिषु च पृथिवीकायिकशरीराणामुद्योतदर्शनात् ॥ विहाय आकाशं विहायसि गतिर्विहायोगतिर्येषां कर्मस्कंधानामुदयेन जीवस्याकाशे गमनं तद्विहायोगतिनाम, न चास्याभावो वितस्तिमात्रपादजीवप्रदेशैभूमिमवगाह्यसकलजीवप्रदेशानामाकाशे गमनोपलंभात्, तत् द्विविधं प्रशस्तविहायोगतिनामाप्रशस्तविहायोगतिभेदेन; यस्य कर्मण उदयेन सिंहकुंजरहंसवृषभादीनामिव प्रशस्ता गतिर्भवति तत्प्रशस्तविहायोगतिनाम ॥ यस्य कर्मण उदयेनोष्ट्रशृगालश्वादीनामिवाप्रशस्ता गतिर्भवति तदप्रशस्तविहायोगतिनाम ॥ यस्य कर्मण उदयेन जीवः स्थावरेषूत्पद्यते तत्स्थावरनामान्यथा स्यावराणामभावः स्यात् । यस्य कर्मण उदयादन्यवाधाकरशरीरेषूत्पद्यते जीवस्तद्वादरनामान्यथाऽप्रतिहतशरीरा जीवाः स्युः ॥ यस्य कर्मण उदयेन सूक्ष्मेषूत्पद्यते जीवस्तत् सूक्ष्मशरीरनिवर्तकं ॥ यदुदयादाहारादि षट्पर्याप्तिनिवृत्तिस्त त्पर्याप्तिनाम । तत् षड्डिधं तद्यथा-शरीरनामकर्मोदयात्पुद्गलविपाकिन आहारवर्गणागतपुद्गलस्कंधाः समवेतानंतपरमाणुनिष्पादिता आत्मावष्टब्धक्षेत्रस्थाः कर्मस्कंधसंवंधतो मूर्तीभूतमात्मानं समवेतत्वेन समाश्रयंति तेषामागतानां पुद्गलस्कंधानां खलरसपर्यायैः परिणमनशक्तिराहारपर्याप्तिः । सा च नांतमुहूर्त्तमंतरेण समयेनैकेन जायते शरीरोपादानात्प्रथमसमयादारभ्यांतर्मुहूर्तेनाहारपर्याप्तिर्निष्पाद्यते खलभागं तिलखलोपमास्थ्यादिस्थिरावयवैस्तिलतैलसमानं रसभागं रसरुधिरवसाशुकादिद्रव्यं तदवयवपरिणमनशक्तिनिष्पत्तिः शरीरपर्याप्तिः साहारपर्याप्तेः पश्चादतर्मुहूर्तेन निष्पद्यते । योग्यदेशस्थितरूपादिविशिष्टार्थग्रहणशक्तेर्निष्पत्तिरिन्द्रियपर्याप्तिः सापि ततः पश्चादंतर्मुहूर्तादुपजायते न चेंद्रियनिष्पत्तौ सत्यामपि तस्मिन् क्षणे बाह्यार्थज्ञानमुत्पद्यते तदा तदुपकरणाभावात् । उच्छासनिःसरणशक्तनिष्पत्तिरानपानपर्याप्तिरेषापि तदंतर्मुहूर्त्तकाले समतीते भवति । भाषावर्गणायाश्चतुर्विधभाषाकारपरिणमनशक्तेः परिसमाप्तिर्भाषापर्याप्तिरेषापि पश्चादंत
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy