SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०८ मूलाचारे चार्कतूलवल्लघुत्वादूर्ध्व गच्छति तदगुरुलघुनाम ॥ उपेत्य घात उपघातयस्योदयात् स्वयंकृतोद्वंधनमरुत्पतनादिनिमित्त उपघातो भवति तदुपघातनाम, अथ वा यत्कर्म जीवस्य स्वपीडाहेतूनवयवान्महाशृंगलाध्वस्तानुदरादीन करोति तदुपघातं ॥ परेषां घातः परघातः यस्य कण उदयात्परघातहेतवः शरीरपुद्गलाः सर्पदंष्ट्रावृश्चिकपुच्छादिभवाः परशस्त्राद्याघाता वा भवंति तत्परघातनाम ॥ उच्चसनमुच्छासः यस्य कर्मण उदयेन जीव उच्छ्रासनिःश्वासकायोत्पादनसमर्थः स्यात्तदुच्छासनिःश्वासनाम ॥ अयं नामशब्दः सर्वत्राभिसंवध्यत इति ॥ १९४ ॥ तथा;आदावुज्जोदविहायगइजुयलतस सुहुमणामं च । पज्जतसाहारणजुग थिरसुह सुहगं च आदेजं ॥१९५॥ अथिरअसुहदुव्भगयाणादेज्जं दुस्सरं अजसकित्ती । सुस्सरजसकित्तीविय णिमिणं तित्थयरणामबादाकं१९६ आतपोद्योतविहायोगतियुगलनसाः सूक्ष्मनाम च । पर्याप्तसाधारणयुगं स्थिरंशुभं सुभगं च आदेयं ॥ १९५ ॥ अस्थिराशुभदुर्भगा अनादेयं दुःस्वरमयशस्कीर्तिः । सुस्वरयशःकीर्तिरपि च निर्माणं तीर्थकृत्वं नाम द्वाच त्वारिंशत् ॥ १९६ ॥ टीका-आतपनमातपः यस्य कर्मस्कंधस्योदयेन जीवशरीर आतपो भवति तदातापननाम, न च तस्याभावः सूर्यमंडलादिषु पृथिवीकायिकतापोपलंभात् ॥ उद्योतनमुद्योतः यस्य कर्मस्कंधस्योदयाज्जीवशरीर उद्योत १ संस्कृतीकाया लिखितपुस्तके "णिमिणं " इत्यस्य छाया " निमान"मिति कृता। निर्माणकर्मणो विख्यातत्वात् 'निर्माण"मिति छाया कृतास्ति । द्वयमपि शुद्धम्।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy